417

अत्र दाशरथिसंबन्धिनो व्यवसायस्य रविणा, रोषस्य गजेन्द्रेण, जयस्य केसरिणा सहोपमानोपमेयभावकल्पनया यदेकं रूपणमथैतत्संबन्धितया प्रदोषशृङ्खलाप्रतिबन्धपञ्जराणां द्वितीयं तत्र त्रयाणामपि घनसमयेन तृतीयं तेनेदं रूपकं परम्परानाम विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः ॥

ववसाअ इत्यादि । ‘व्यवसायरविप्रदोषो रोषगजेन्द्रदृढशृङ्खलाप्रतिबन्धः । कथं कथमपि दाशरथेर्जयकेसरिपञ्जरो गतो घनसमयः ॥’ अत्र दाशरथे रामस्य कथं कथमपि कष्टसृष्ट्या घनसमयो वर्षर्तुरतीतः । कीदृशः । व्यवसायः कार्योद्योगः स एव रविस्तेजोमयत्वात्तस्य प्रदोषोऽस्तगमनकालः । दोष एव गजेन्द्रो दुर्निवारत्वात्तस्य दृढशृङ्खलाप्रतिबन्धः प्रतिबन्धकत्वात् । जय एव केसरी तस्य पञ्जरो गृहभेदो नियामकत्वात् । ‘शृङ्खला निगडे त्रिषु’ इति भेदिनीकारः । इह रामसंबन्धिसंबन्धिरूपणात्परम्परारूपकम् । संबन्धिसंबन्धित्वादेव विकृतत्वम् ॥

रशना यथा—

‘किसलयकरैर्लतानां करकमलैर्मृगदृशां जगज्जयति ।
नलिनीनां कमलमुखैर्मुखेन्दुभिर्योषितां मदनः ॥ ३० ॥’

अत्र किसलयकरैः, करकमलैः, कमलमुखैः, मुखेन्दुभिरिति रशनाक्रमेण शब्दानां संदर्भ उपलभ्यमानस्तदर्थानां मनोभुवो जगद्विजये लतादिसंबन्धात्करणभावमनुमापयतीति रशनानामैतद्विकृतरूपकेषु शब्दभूयिष्ठरूपकभेदः ॥

किसलयेत्यादि । मदनः कामो हरिणाक्षीणां हस्तपद्मैर्लतानां किसलयकरैर्जगज्जयति । योषितां मुखचन्द्रैः पद्मिनीनां पद्ममुखैश्च जगज्जयति । इह रशना क्षुद्रघण्टिका तस्याः क्रमः पश्चाद्वलनयैकैकप्रथना शब्दगता प्रतीयत इति रशनारूपकमिदम् ॥

माला यथा—

‘स्वामी दुर्नयवारणव्यतिकरे शौर्योपदेशे गुरु- र्विस्रम्भे हृदयं नियोगसमये दासो भये चाश्रयः ।