400
इवार्थान्तर्गतेरेका सामान्यान्तर्गतेः परा ।
अन्तर्भूतोभयार्थान्या सान्या सर्वसमासभाक् ॥ ९ ॥

समासादिति । समासोपमा इवार्थेत्यदिना चतुर्विधा ॥

तास्वन्तर्भूतेवार्था यथा—

‘मुखमिन्दुसुन्दरं ते बिसकिसलयकोमले भुजालतिके ।
जघनस्थली च सुन्दरि तव शैलशिलाविशालेयम् ॥ १ ॥’

अत्र इन्दुरिव सुन्दरमिन्दुसुन्दरमितीवार्थः ‘उपमानानि सामान्यवचनैः २।१।५५।’ इति समासेनैक्तः । एवं बिसकिसलये इव कोमले शैलशिलेव विशालेति । सेयमन्तर्गतेवार्था नाम समासोपमासु पदोपमाभक्तिः ॥

मुखमित्यादि । हे सुन्दरि, एव मुखं चन्द्रवत्सुन्दरम्, तव भुजालतिके बिसकिसलयकोमले मृणालपल्लववत्कोमले, तव जघनस्थली शैलपाषाणवद्दीर्घा चेति पूर्वापेक्षया, वाक्यसमाप्तौ वा । इवार्थस्तुल्यता । भक्तिर्विभागः । ‘भक्तिर्विभागे सेवायाम्’ इति मेदिनीकारः ॥

अन्तर्भूतसामान्या यथा—

‘चन्दसरिसं मुहं से 137अमअसरिच्छो अ मुहरसो तिस्सा ।
सकअग्गहरहसुज्जल चुम्बणअं कस्स सरिसं से ॥ २ ॥’
[चन्द्रसदृशं मुखमस्या 138अमृतसदृक्षश्च मुखरसस्तस्याः ।
सकचग्रहरभसोज्ज्वलचुम्बनकं कस्य सदृशं तस्यः ॥]

अत्र चन्द्रेण सदृशं चन्द्रसदृशं मुखम्, अमृतेन सदृक्षोऽमृतसदृक्षो मुखरस इति समासे सुन्दरमधुरादिसामान्यशब्दप्रयोगो न श्रूयते प्रतीयते च, सदृशादेर्द्योतकादिति सामान्यधर्मस्य सौन्दर्यमाधुर्यादेरुपमान-

  1. गाथासप्तशत्यां तु ‘सरिसो अमअस्स’ इति पाठः
  2. 'सदृशोऽमृतस्य' इति छाया च समुपलभ्यते.