419

तेषु समस्तं यथा—

‘ताम्राङ्गुलिदलश्रेणिनखदीधितिकेसरम् ।
ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजम् ॥ ३३ ॥’

अत्र समस्तोपमायामिव पादाख्यः पङ्कजाख्यश्चावयवी परस्परमुपमानोपमेयभूतः प्रतीयमानाभिधीयमानसादृश्यैरङ्गुलिश्रेणिनखदीधितिभिर्दलश्रेणिकेसरैश्च सह सामस्त्येन रूपितस्तद्योग्यस्थानविन्यासेन चार्थस्य प्राधान्यमभिहितमिति समस्तं नाम रूपकमिदमङ्गिप्रधानरूपकेष्वर्थभूयिष्ठरूपकभेदः । न चैतद्वाच्यम्—'पाणिपद्मानि भूपाना'मित्यादेरुदाहरणादिदं न भिद्यत इति । तत्र हि नखार्चिषां क्रियासमावेशेन प्राधान्यमवगम्यते, न नखचन्द्राणां ततश्च न रूपकम् । पाणिपद्मेत्यस्य तु यद्यपि संकोचक्रियायामस्ति समावेशस्तथापि न तानि वर्णनीयत्वेनोपन्यस्तानि, अपि तु जिगीषुभाववर्णनाङ्गतया । अतः समावेशमात्रभणनान्न तत्र पाणिपद्मानां नापि नखचन्द्राणामर्थप्राधान्यमपि तु शब्दप्राधान्यमेव । इह तु चरणपङ्कजताम्राङ्गुलिदलश्रेण्यादिविशेषणविशिष्टस्य भूपालमौलिविनिवेशनेन प्राधान्यं प्रतीयत इत्युभयमपि निरवद्यम् ॥

समस्तमिति । ताम्रेत्यादि । भवच्चरणपद्मं नृपैर्मस्तके ध्रियते । कीदृशम् । ताम्राङ्गुलयो दलश्रेणिः पत्त्रपङ्क्तिर्यत्र तत् । नखदीधितयः केसराणि यत्र तत् । समस्तेति । यथा समस्तोपमायामवयविनोः सामस्त्येनोपमा, तथात्राप्यवयविनोरेव प्राधान्येन सामस्त्येन रूपकमित्यर्थः । अङ्गुल्यादौ प्रतीयमानता दलादावभिधीयमानता । तर्हि शब्दभूयिष्ठत्वमेव स्यादत आह—तद्योग्येति । शब्दोपस्थापितानामर्थानामिह यथास्थानं विनिवेशादर्थप्राधान्यमित्यर्थभूयिष्ठत्वमुक्तमित्यर्थः । शब्दभूयिष्ठरूपकभेदे समस्तेऽतिव्याप्तिमाशङ्कते—न चेति । तत्रापि नानाशब्दोपस्थापितानामर्थानामवयविनोरेव प्राधान्यमतो नानयोर्भेद इत्याशयः । परिहरति—तत्र हीति । तत्रार्चिषां प्राधान्यं साक्षात्क्रियान्वयात्, समर्थानामवयविनोरेव प्राधान्यमतोऽनयोर्भेद इत्याशयः । नखचन्द्राणां तदङ्गतयान्वयः ।