समस्तमिति । ताम्रेत्यादि । भवच्चरणपद्मं नृपैर्मस्तके ध्रियते । कीदृशम् । ताम्राङ्गुलयो दलश्रेणिः पत्त्रपङ्क्तिर्यत्र तत् । नखदीधितयः केसराणि यत्र तत् । समस्तेति । यथा समस्तोपमायामवयविनोः सामस्त्येनोपमा, तथात्राप्यवयविनोरेव प्राधान्येन सामस्त्येन रूपकमित्यर्थः । अङ्गुल्यादौ प्रतीयमानता दलादावभिधीयमानता । तर्हि शब्दभूयिष्ठत्वमेव स्यादत आह—तद्योग्येति । शब्दोपस्थापितानामर्थानामिह यथास्थानं विनिवेशादर्थप्राधान्यमित्यर्थभूयिष्ठत्वमुक्तमित्यर्थः । शब्दभूयिष्ठरूपकभेदे समस्तेऽतिव्याप्तिमाशङ्कते—न चेति । तत्रापि नानाशब्दोपस्थापितानामर्थानामवयविनोरेव प्राधान्यमतो नानयोर्भेद इत्याशयः । परिहरति—तत्र हीति । तत्रार्चिषां प्राधान्यं साक्षात्क्रियान्वयात्, समर्थानामवयविनोरेव प्राधान्यमतोऽनयोर्भेद इत्याशयः । नखचन्द्राणां तदङ्गतयान्वयः । 420 तर्ह्यर्चिषामेव रूपकत्वमस्तु, तथापि स दोषस्तदवस्थ एवेत्यत आह—ताश्चेति । ता अर्चिषः । पाणिपद्मानीत्यत्र रूपकत्वे दोषतादवस्थ्यादाह—पाणीति । जिगीषुभाववर्णनायां मुख्यत्वेनाङ्गतया पाणिपद्माद्यन्वय इति शब्दप्राधान्यमेव । प्रकृते तु चरणादेरवयविनः प्रधानक्रियान्वय इत्यर्थप्राधान्यमिति भेदः ॥