अत्र दिवसावयविनो भुजङ्गावयविनश्चाभिधीयमानप्रतीयमानदैर्ध्य-428 दारुणादिधर्मयोरभेदोपचारेण रूपणमवयवानां चतुर्णां रविबिम्बातपफंणामणिनिर्मोकाणां सत्यामप्यभेदोपचारयोग्यतायां द्वयोरिवशब्दप्रयोगेनोपमायां द्वयोस्तुल्यरूपणेऽप्यसामानाधिकरण्यान्नावयवावयविभावो विभाव्यत इति निरवयवस्योपमायां संकीर्णत्वान्निरवयवसंकीर्णं नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः ॥