428 दारुणादिधर्मयोरभेदोपचारेण रूपणमवयवानां चतुर्णां रविबिम्बातपफंणामणिनिर्मोकाणां सत्यामप्यभेदोपचारयोग्यतायां द्वयोरिवशब्दप्रयोगेनोपमायां द्वयोस्तुल्यरूपणेऽप्यसामानाधिकरण्यान्नावयवावयविभावो विभाव्यत इति निरवयवस्योपमायां संकीर्णत्वान्निरवयवसंकीर्णं नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः ॥

दीहो इत्यादि । इह दिवस एव भुजङ्गः सर्पोऽपरसमुद्रं पश्चिमसमुद्रं गत इव । कीदृशः । दीर्घो महापरिमाणः । सूर्यबिम्बमेव फणामणिप्रभां विकासयन् आतपसमूहं कञ्चुकमिव त्यजन् । अत्रासामानाधिकरण्येनावयवावयविभावो न ज्ञायते, इवप्रयोगेण चोपमा ज्ञायत इति निरवयवसंकीर्णरूपकमिदम् ॥

उभयसंकीर्णं यथा—

‘धुअमेहमहुअराओ घणसमआअड्ढि ओणअविमुक्काओ ।
णहपाअवसाहाओ णिअअट्ठाणं व पडिगआओ दिसाओ ४७’
[धुतमेघमधुकरा घनसमयाकृष्टावनतविमुक्ताः ।
नभःपादपशाखा निजकस्थानमिव प्रतिगता दिशः ॥]

अत्र पादपरूपेण रूपितस्य नभसो यदेतद्दिशां शाखारूपेण रूपणं मेघानां च मधुकरप्रकरेण तदुभयमप्यन्यपदार्थषष्ठीसमासयोरभिधीयमानेन सावयवं निरवयवं चेत्युत्प्रेक्षया च संकीर्यमाणमुभयसंकीर्णरूपकव्यपदेशं लभते । सोऽयं संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः ॥

धुअ इत्यादि । इह दिशो निजस्थानं स्वकीयस्थानं प्रतिगता इव । इवपदमुत्प्रेक्षायाम् । कीदृश्यः । धुता मेघा एव मधुकरा भ्रमरा यासु ताः । घनसमयेन वर्षाकालेन घनावरणादाकृष्टाः संनिहितीकृता अवनता भूमिलग्नाः पश्चाद्विमुक्तास्त्यक्ताः । नभ एव पादपो वृक्षस्तस्य शाखाभूताः । अत्र धुतमेघपदे बहुव्रीहिः । नभःपादपपदे षष्ठीसमासस्ताभ्यां सावयवत्वं निरवयवत्वं च यथाक्रममुक्तम् । अत एवोभयसंकीर्णरूपकमिदं । 142स्कन्धके, ध्वनिस्तु दिशन्तीति दिशः प्रौढनायिकाः । अन्या अपि दिशो निजस्थानमिव गच्छन्ति । कीदृश्यः धुतमेधं(ध्यं) यन्मधु मद्यं

  1. ‘स्कन्धकं नाम छन्दः'.