अत्र सरसनखपदाकारस्येन्द्रधनुष उत्पन्नसादृश्यादभेदोपचारेण रूपेण योऽयं सरसे नभसि पदमस्येति व्युत्पत्त्या श्लिष्टरूपेण तद्विशेषणप्रकारो यश्च शोभायाः प्रथममग्र्यं चिह्नं सौभाग्यस्य च प्रथमं चिह्नं पीनपयोधरे मेघे स्तने वा लग्नमित्यादिविशेषणविशेष्यभावस्तेनेदं श्लेषेणोपधीयत इति श्लेषोपहितं नाम संकीर्णरूपकेषूभयभूयिष्ठरूपकभेदः ॥