436

सोपमानोपमेययोः साम्येन प्रकृता यथा—

‘अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः ।
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥ ५७ ॥’

अत्र मृगलोचनोपमानानां तल्लोचनोपमेययोश्च साम्यमविकृतानामेव प्रतीयते । सेयं सामान्येन प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः ॥

साम्येति । उपमानोपमेययोः साम्येनोत्कर्षेणापकर्षेण च प्रपञ्चोक्तिः । सा च क्वचित्प्रकृता स्वभावसिद्धा, क्वचिद्विकृतौपाघिकी ॥ अरण्येत्यादि । तस्यां गौर्यां च तथा तेन प्रकारेण हरिणा विशश्वसुः विश्वासं जगमुः । कीदृशाः । अरण्यबीजस्य अंडोरीति ख्यातस्याञ्जलिदानेन लालिता विलासिताः । तदञ्जलिस्थनीवारधान्यभक्षका इत्यर्थः । यथा सा गौरी तदीयैर्मृगसंबन्धिभिर्नेत्रैरग्रे सखीनां लोचनेऽमिमीत समीचकार कौतुकात् । अरण्ये बीजानि यस्य तदरण्यबीजम् । विशश्वसुरिति विपूर्वात् ‘श्वस प्राणने’ इत्यस्माल्लिट्युसि रूपम् । 145अमिमीतेति ‘माङ् माने’ णिचि लुङि चङि रूपम् । इहाविकृतता मृगलोचनानां सहजसौकर्यात् । अत एव प्रकृतता प्रपञ्चोक्तिरिवादेरप्रयोगात् ॥

प्रकृतैवोपमानोत्कर्षेण यथा—

‘गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं मुग्धे ।
सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥ ५८ ॥’

अत्र तव द्वे लोचनोत्पले एव, सरसां पुनर्बहूनि नीलोत्पलानीत्युपमानोत्कर्षः प्रकृत एव प्रतीयते । सेयमुपमानोत्कर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः ॥

गर्वमित्यादि । ननु हे नायिके, लोचनद्वयेनासंवाह्यं गर्व त्वं किं वहसि । न वोढुमर्हसीत्यर्थः । दिशि दिशि प्रतिदिशं सरःसु तडागेषु र्हदृशानि त्वन्नत्रतुल्यानि नीलोत्पलानि सन्ति । अत एव गर्वभङ्गः । ‘स्यान्मर्दनं संवाहनम्’ इत्यमरः । इह नीलोत्पलानामुत्कर्षः साहजिक एव । नेत्रद्वयापेक्षया तेषां बहुत्वात् ॥

  1. प्रमादोक्तिरेषा । जौहोत्यादेर्माधातोरिति तु न्याय्यम्