438

उपमानोपमेययोः साम्यापत्त्या विकृता यथा—

‘घरिणीए महाणसकम्मलग्गमसिमलिइएण हत्थेण ।
छित्तं मुहं हसिज्जइ चन्दावत्थं गअं पइणा ॥ ६१ ॥’
[गृहिण्या महानसकर्मलग्नमसीमलिनितेन हस्तेन ।
स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या ॥]

अत्रोत्कृष्टोपमेयस्य मसीमालिन्यवैकृतेनोपमानसाम्यमापद्यमानं प्रतीयते । सेयमुपमानोपमेययोः साम्यापत्त्या विकृता नाम प्रपञ्चोक्तिः साम्यभेदः ॥

घरिणीत्यादि । ‘गृहिण्य महानसकर्मलग्नमसीमलिनितेन हस्तेन । स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या ॥’ इह कयाचिन्नायिकया चन्द्रेण स्पर्धमानया पाकासक्तया श्यामितहस्तेन मुखे स्पृष्टे सति नायकस्तन्मुखस्य चन्द्रसमत्वं सूचयन्नुपहसतीत्येकापरस्यै कथयति—गृहिण्या इति । गृहिण्याः पाकक्रियालग्नश्यामभागश्यामितेन करेण स्पृष्टं मुखमत एव चन्द्रावस्थां गतं पत्या हस्यते । ‘पाकस्थानमहानसे’ इत्यमरः । अत्र मसीमालिन्यं वैकृतं तत एव मुखचन्द्रयोः साम्यापत्तिः ॥

विकृतैवोपमेयस्योत्कर्षापत्त्या यथा—

‘रत्तुप्पलदलसोहा तीअ वि चसअम्मि सुरहिवारुणीभरिए ।
मअतम्बेहि मणहरा पडिमाडिएहि लोअणेहि लहुइआ ॥ ६२ ॥’
[रक्तोत्पलदलशोभा तस्य अपि चषके सुरभिवारुणीभरिते ।
मदताम्राभ्यां मनोहरा प्रतिमापतिताभ्यां लोचनाभ्यां लघ्वीकृता ॥]

अत्रोपमेयस्य मधुमदताम्रत्ववैकृत उत्कर्षः प्रतीयते । सेयमुपमेयोत्कर्षेण विकृता नाम प्रपञ्चोक्तिः साम्यभेदः ॥

रत्तुप्पलेत्यादि । इह कथापि नायिकया लोचनाभ्यां चषके सुगन्धिमद्यभृते प्रतिमया प्रतिबिम्बेन पतिताभ्याम् । अत एव मदेनाताम्राभ्यामतिलोहिताभायां मनोज्ञा रक्तोत्पलदलस्य शोभा लघ्वीकृतात्यल्पा कृता । जितेति यावत् । ‘चषकं पानपात्रं स्यात्’ इति हारावली । ‘सुरा...वरुणात्मजा’ इत्यमरः । भरित इत्यत्र