441

दृष्टान्तोक्तिच्छायया निषेधे ऋजुः पूर्वा यथा—

‘न मालतीदाम विमर्दयोग्यं न प्रेम नव्यं सहतेऽपराधान् । म्लानापि न म्लायति केसरस्रग्देवी न खण्डप्रणया कथंचित् ६७’

अत्र न मालतीदाम विमर्दयोग्यामिति, म्लानापि न म्लायति केसरस्रगिति च ऋजूक्तिभ्यामेव पूर्वं दृष्टान्तरूपे वस्तुनी प्रतिषिध्योत्तरकालं न प्रेम नव्यं सहतेऽपराधानिति, देवी न खण्डप्रणया कथंचिदिति च दार्ष्टान्तिकरूपे प्रतिवस्तुनी ऋजूक्त्यैव प्रतिषिद्धे । सेयं निषेधे ऋज्वी पूर्वा च दृष्टान्तोक्तिच्छायाया प्रतिवस्तूक्तिः साम्यभेदः ।

न मालतीत्यादि । मालतीमाला विमर्दयोग्या नास्ति । अतिमृदुत्वात् । तद्वन्नव्यं नवीनं प्रेम अपराधान्न सहते । केसरस्रक् बकुलमाला म्लानापि सती न म्लायति अतिमलिना न भवति तद्वद्देवी कथंचिन्न खण्डप्रणया न खण्डितप्रश्रया भवति । ‘नव्यो नवीनो नूतनो नवः’ इत्यमरः । अत्र दृष्टान्तोक्तिच्छायया निषेधः । पूर्वत्वमृजुत्वं च स्फुटमेव ॥

सैवोत्तरा च वक्रा च यथा—

‘मानुषीषु कथं वा स्यादस्य रूपस्य संभवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ ६८ ॥’

अत्र कथं वा स्यादिति वक्रया निषेधोक्त्या दार्ष्टान्तिकमभिधाय पश्चान्न वसुधातलात्प्रभातरलं ज्योतिरुदेतीति वैयधिकरण्यवक्रयैव निषेधोक्त्या दृष्टन्तोऽभिहितः । सेयं निषेधे वक्रोत्तरा च दृष्टान्तोक्तिच्छायया प्रतिवस्तूक्तिः साम्यभेदः ॥

मानुषीष्वित्यादि । विवृतोऽयमभावालंकारे । अत्र कथं वा स्यादिति वितर्कोत्थतया वक्रोक्तिर्निषेधरूपा, उत्तरार्धे तादृशज्योतिषो भूमावसंभवेऽतिरूपवत्या भूमावसंभव उक्त इति वैयधिकरिण्यं वक्रता च ॥