443

अत्रोपमेयोत्कर्षो वैकृतः, उपमानापकर्षः प्राकृतः प्रकाशत एव । या पुनरियमुत्तरार्धेन रूपकेणोपमानापकर्षस्योक्तिभाङ्गिस्तयेयं प्रपञ्चोक्तिच्छायया विधौ वक्रा नाम प्रतिवस्तूक्तिः साम्यभेदः ॥

एक्को इत्यादि । ‘एकोन्नामित भ्रूभङ्गे विमलकपोले वदने तव मृगाक्षि तिर्यङ्गयने । एतच्छशिबिम्बं कलङ्कागारं पाण्डरमुत्क्षिप्तमुपरि भ्रामयित्वा निर्मञ्छनकर्परम् ॥’ इह हे मृगाक्षि, तव वदन एतच्छशिबिम्बं निर्मञ्छनकर्परमुपरि भ्रामयित्वोत्क्षिप्तम् । कीदृशे वदने । एक उन्नमित उत्तोलितो भ्रूभङ्गो यत्र तस्मिन् । विमलौ कपोलौ यत्र तस्मिन् । तिर्यग्नयने यत्र तस्मिन् । एतादृशस्य निर्मञ्छनमुचितमेव । शशिबिम्बे निर्मञ्छनकर्परधर्ममाह—कलङ्क एवाङ्गारो यत्र तत्पाण्डरं श्वतं च । ‘अङ्गारोऽलातमुल्मुकम्’ इत्यमरः । ‘कर्परोऽस्री कपालेऽपि’ इति मेदिनीकारः । अत्रोपमेये वदने भ्रूभङ्गादेर्विकृतत्वप्रकाशः स्फुटः । उत्तमस्य निर्भञ्छनं क्रियत इत्युक्तिभङ्गी ॥

सैव निषेधे ऋज्वी यथा—

‘दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः सन्तश्चेदमृतेन किं यदि खलास्तत्कालकूटेन किम् ।
किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् ॥ ७१ ॥’

अत्रोपमेयोत्कर्ष ऋजूक्त्यैव च निबद्ध इति सेयं प्रपञ्चोक्तिच्छायया निषेधे ऋजुर्नाम प्रतिवस्तूक्तिः साम्यभेदः ॥

दातार इत्यादि । यदि दातारः सन्ति तदा कल्पशाखिभिः कल्पवृक्षपञ्चकैरलं निष्फलम् । दानस्य दातृभिरेव निष्पादनाम् । यद्यर्थिनो याचकाः सन्ति तर्हि तृणैः किम् । याचकानामेव तृणाकार्यकरत्वात् । एवमन्यत्रापि । चेद्यदि सन्तः सज्जनास्तदा अमृतेन किम् । खला दुर्जना यदि तदा कालकूटेन विषेण किम् । दृशोर्नेत्रयोः । पन्थानं मार्गं यदि प्रिया एति आयाति तदा कर्पूरशलाकया किं कर्पूरघटितकाष्ठिकया किम् । कर्पूराञ्जन्या वा किम् । संसारेऽपि सति विद्यमाने तस्मादपरमिन्द्रजालमस्ति तेनापि किम् । सकलेन्द्रजालात्संसारस्य महत्त्वात् । ‘चन्द्रादिकाष्ठ्यञ्जनयोः शलाका’ इति मेदिनीकारः । अत्र दातृप्रभृतेरुत्कर्ष उपमाने च निषेध ऋजूक्त्यैव ॥