आशयस्येति । उत्कर्षः पूर्ववत् । उच्चाशयो लोके उदात्त इति प्रतीतः ॥ पात्र इति । विश्वनाथ इति यदाज्ञावशंवदा त्रिलोकी सोऽपि यत्प्रार्थयत इति, वलयेऽपीत्यपिशब्देन यस्यैकदेशः कुरुपाण्डवनिधननिदानतया विख्यातस्तस्यापि देये लज्जत इति । देवासुरकिन्नरादिरयं जङ्गमस्थावरप्रपञ्चो यदुच्छ्वासविलसितं सोऽपि चमत्कृत इति पदार्थानभिहितः प्रकर्षोऽभिधेयः ॥