091 शब्दविकासे न दोषः, किं तु गुण एव । प्रकृतोदाहरणे द्विरष्टवर्षाकृतिमिति कल्पोपपदं महीरुहमिति च निदर्शनं मन्यन्ते । षोडशादिशब्दानामपि वंशस्थप्रवेशत्वादनन्यगतिकत्वाभावात् । हिरण्यपूर्वं कशिपुमिति तु संगच्छते । नहि हिरण्यकशिपुशब्दोऽत्र प्रविशति । प्रदर्शनार्थं तु द्वयमन्यदप्युपात्तम् । एवंविधः शब्दविस्तरो गुणतामासादयतीत्याशयात् । तेनायमर्थः—पल्लवाख्यशब्दगुणे तावत्तुच्छता चमत्कारकारितया गुणधुराधिरूढैवाविस्तरविविक्तविषयतया क्व विशेषगुणस्य भवतीति जिज्ञासायां तु छन्दोऽनुरोधो विहितः । सोऽपि हि कादाचित्कः करोत्येव दोषभावव्यावृत्तिमिति ॥
यथा—
अत्र कूजितस्य पक्षिणोऽन्यत्रावाचकत्वेऽपि कामशास्त्रेऽनुमतत्वाद्गुणत्वम् ॥
प्रतिपादितमिति । अस्ति कश्चिदेवं विषयो यत्रासमर्थस्य चारुतया गुणभावः । तथा हि—यद्यपि गणपाठादव्यक्तशब्दः कूजितम्, तथापि लोके पक्षिविषय एव नियतम्, तथा चाभिमतविषये प्रयुक्तं पक्षिविरुताकारमावेदयति । 'हारीतप्रभृति—‘ इत्यादिना कामशास्त्रकारैः सीत्कारोपदेशनात् । सीत्कारस्य च चतुःषष्टिकलात्वेन प्रवणतयात्यन्तमुपादेयत्वात् । तदाह—‘अन्यान्यप्याकृतिग्रहणान्युपलक्षयेत्’ इति ॥
यथा—