यदिति । संदर्भच्छायावैषम्यमत्र कष्टताबीजमिति पूर्वमुक्तं तत्र यदि समानच्छायशब्दमध्यनिवेशनेन प्रतिक्षिप्यते तदा कथं दोषः । तथाभूतानामेव पदानां संदर्भनिर्वाहकतया महाकविनिबद्धमिति । अत एव शब्दगमकतया गुणत्वलाभः । उद्दण्डत्वेन पिण्डीतगराणां कठोरता । तादृशानामपि तरलनेन प्रौढिः । उत्ताले-098 त्याद्यनुप्रासवत्प्रोढपदसजातीयमेव तल्लपदम् । एवं गल्लेत्यादौ बोद्धव्यम् । तदिदमाह—अत्र तल्लगल्लेत्यादि ॥