न यत्पदमिति । पदस्वरूपमेव संदिह्यमानमत्र । तथाहि—स एष हि महादेव इत्यत्र स किमेष हि महादेव इति च्छेदो विधीयतां महादेव इति वा साधकबाधकप्रमाणाभावे संदिह्यते । न च विशेषणनियमहेतुः । वह्न्यर्कावपि हि भगवतो नीललोहितमूर्तिभूतौ हिमापहौ च न निश्चयकृदिति दूषणताबीजप्रदर्शनम् । यदैको विवक्षितस्तदा दोषः । साधुचर इत्यत्रापि ‘भूतपूर्वे चरट्’ इति चरट्प्रत्यये किं पूर्वं साधुरथवा चरेष्टप्रत्यये साधुषु चरतीति पदमेव संदिह्यते तेन पदावयवः संदिग्ध इति केनचिदुक्तम्, तदप्यपास्तम् ॥