110 पदे किमिदमनेनान्वीयतेऽनेन वेति संदेहसंकीर्णतासंशयोऽपि संकरमध्यासीन एवेति गुरवः । अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र राजपदं संदंशपतितं किं पूर्वेणाथ परेणान्वीयत इति संदिह्यते । राजगोक्षीरादौ द्वयेनान्वयो गोपदस्य निश्चित इति ॥

प्रकृतिस्थादिभेदेन ग्राम्यादिभिरथापि या ।
अपदं तस्य चानुज्ञा भाषाचित्रे विधीयते ॥ ११८ ॥

यथा—

‘हा तो जो ज्जलदेउ नैव मदनः साक्षादयं भूतले 50तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते ।
51ऐ दूए किअलेउ भूतपतिना गौरीविवाहोत्सवे ऐसें सच्च जि बोल्लु हस्तकटकः किं दर्पणेनेक्ष्यते ॥ १५९ ॥’

अत्र ग्राम्यः प्रष्टा नगरमागतो राजानं दृष्ट्वा ग्राम्यैः प्रकृतिस्थैरेव वा पदैः प्राकृतेन पृच्छति—‘हा तो जो ज्जलदेउ’ इति । नागरश्च तमनुजिघृक्षुरुपनागरैः कोमलैर्वा पदैः सवक्रोक्ति प्रत्याचष्टे—‘नैव मदनः साक्षादयं भूतले’ इति । अथ ग्राम्य आहितप्रतिभः पूर्वपदानुरोधादर्धप्राकृतेनैव ग्राम्योपनागरैः प्रकृतिस्थकोमलैर्वा पदैस्तमुपालभते—‘तत्किं दीसइ सच्चमा हतवपुः कामः किल श्रूयते’ इति । अथ नागरो ज्ञाततत्प्रावीण्यः52 पादानुरोधादेव अर्धप्राकृतेन ग्राम्योपनागरनागरैः प्रकृतिस्थकोमलकठोरैर्वा पदैः समाधत्ते—‘ऐ दूए किअलेउ भूतपतिना गौरीविवाहोत्सवे’ इति । अथ ग्राम्यः श्लोकसमाप्तेः पादस्य तदुत्तरस्य चानुरोधाद्ग्राम्याणि प्रकृतिस्थानि वा त्रिचतुराणि पदानि प्राकृते नोक्त्वा पादार्ध एव तिष्ठति—‘ऐसें सच्च जि बोल्लु’ इति । अथ नागरो जितकाशी ग्राम्यो-

  1. ‘ता किं’ ग; परंतु ‘तक्किम्’ इति भवेत्
  2. ‘पच्छा ऐ’ इति टीकासंमतमुख्यपाठः
  3. ‘ण्यस्तत्पदा’ क-ख