श्लिष्टमिति । पारुष्यशैथिल्याभ्यां विना कृतं श्लिष्टमित्युक्तं तस्य विपर्ययो विपरीतं वाक्यं शिथिलं भवति । परुषमल्पप्राणाक्षरोत्तरं वेत्यर्थः । एवंविधमपि चैतदनुप्राससौष्ठवात्पदानामेकताप्रतिभासे समाधीयत उद्भटानुप्रासतया च कान्तिप्राधान्ये गौडीयरीतिप्राधान्येन गुणत्वमासादयति तदिदमुक्तम्—बन्धप्राशस्त्यगौरवादिति । गौडीयैर्गौडीयरीतिगोचरहेतुवाक्प्रकर्षशालिभिः ॥ लीलेति । अत्र दन्त्यवर्णमयत्वेनाल्पप्राणाक्षरोत्तरतायामपि पदैकताप्रतिभासानुप्रासयोरुद्रेकः कान्तिप्रकर्षोऽवसेयः ॥