126

यथा—

‘यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा ।
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः क्रोधान्धस्तस्य तस्य स्वयमिह जगतामन्तकस्यान्तकोऽहम् ॥ १७४ ॥’

अत्रासमस्तत्वेऽपि 87प्रौढबन्धत्वाद्गुणत्वम् ॥

ओज इति । दीप्तरसानुप्रविष्टार्थप्रतिपादकसंदर्भौचित्येन समासभूयस्त्वमोजः । अस्य विपर्ययो दीप्तेरप्रत्यूहादेव समाधीयते । तदिदमुक्तम्—‘दीप्तार्थं बध्यते यत्र तद्दीप्तं चेन्न दुष्यति’ इति । सुगममुदाहरणम् । व्यूढःप्रौढः ॥

समस्तमसमस्तं वा न निर्वहति यद्वचः ।
तदनिर्व्यूढमस्यापि न दोषः क्वापि तद्यथा ॥ १३३ ॥

यथा—

‘प्रसीद चण्डि त्यज मन्युमञ्जसा जनस्तवायं पुरतः कृताञ्जलिः ।
किमर्थमुत्कम्पितपीवरस्तन- द्वयं त्वया लुप्तविलासमास्यते ॥ १७५ ॥’

88अत्रासमस्तरीत्यनिर्वाहादनिर्व्यूढत्वेऽपि रसान्तरपरिग्रहेण रीत्यन्तरपरिग्रहाद्गुणत्वम् ॥

समस्तमिति । उपक्रान्तरीतेरनिर्वाहे 89मधुररसपर्यन्ता प्रतीतिः स्खलतीति दूषणताबीजमुक्तम् । तथाभूतरसानुगुणव्यभिचार्यनुप्रवेशव्यञ्जनौचित्यादुपक्रमनिर्वाहः सर्वस्वायमानो गुणतामासादयति । तथा हि—प्रसीदेत्यादौ प्रणयकेलिकुपितकामिनीप्रसादनायां शृङ्गारविरोधिसमासव्यतिकरेण रीतेरप्यपक्रमे रोषलक्षणभावानुभावभूः90 स्तनकम्पवर्णनायां समासोऽनुप्रविष्ट इति व्यक्तः पूर्वरीतेरनिर्वाहः । रसान्तरं प्रकृतविजातीयरससंबद्धो व्यभिचारी भावः ॥

  1. ‘व्यूढ’ इति टीकासंमतः पाठः
  2. ‘अत्र समस्तरीत्या’ क-ख
  3. ‘मधुरसपर्यन्ता’ इति स्यात्
  4. ‘भूतस्तन’ स्यात्