140

ते चालंकारा यथास्थानं निवेश्यमाना एव सहृदयरञ्जनक्षमा इति कवीञ्शिक्षयति—

दीर्घापाङ्गं नयनयुगलं भूषयत्यञ्जनश्री- स्तुङ्गाभोगौ प्रभवति कुचावर्चितुं हारयष्टिः ।
मध्ये क्षामे वपुषि लभते स्थानकूर्पासलक्ष्मीः श्रोणीबिम्बे गुरुणि रशनादाम शोभां बिभर्ति ॥ १६० ॥

दीर्घेति । तेन शब्दादिविषयविभागेनालंकारविवेचनं सप्रयोजनमेवेति तात्पर्यार्थः । शेषमतिरोहितम् ॥

इति श्रीमिश्ररत्नेश्वरविरचिते रत्नदर्पणनाम्नि सरस्वतीकण्ठाभरणविवरणे गुणविवेचनो नाम प्रथमः परिच्छेदः ।
इति श्रीमहाराजाधिराजभोजदेवेन विरचिते सरस्वतीकण्ठाभरणनाम्नि अलंकारशास्त्रे गुणविवेचनं नाम प्रथमः परिच्छेदः ।

द्वितीयः परिच्छेदः ।