उच्यत इति । अपशब्दत्वं पद एव नियतं वाक्ये संस्कारप्रसक्तेरभावादपशब्दत्वं न वाक्यदूषणम् । तथा हि—‘कर्तरि कृत्’ इति नियमात्कर्मणि क्तवतुरसाधुः । ‘अकर्मकाच्च’ इत्यनुवृत्तौ ‘आङो यमहनः’ इत्यात्मनेपदमकर्मक एव प्राप्तं 'स्वाङ्गकर्मकाच्च’ इति वाक्यैकवाक्यतापर्यालोचनयास्वाङ्गकर्मण्यसाधुः कथं वाक्यदूषणता । नहि वाक्यान्तः पातितामात्रेण सा युज्यतेऽतिप्रसङ्गादित्याशङ्क्योक्तम् । तौ 019 चेति । नहि यथा बाधृधातुः परस्मैपदान्त इत्येवासाधुत्वम्, तथात्र पदान्तरसंनिधानापेक्षत्वेऽध्यवसीयते । भूतानामधिपतिना शिलावितान इति यावन्नानुसंधीयते तावद्गमितवतीति किं कर्तरि कर्मणि वेति संदेहानिवृत्तेः । तथा गाण्डीवी विषमविलोचनस्य वक्ष इत्येतावत्प्रतीत्य कथमाजघ्न इत्यस्वाङ्गकर्मणि आत्मनेपदमध्यवसानयोग्यम् । इयमेव हि वाक्यदोषता यदनेकपदनिरूप्यता नाम वाधतीत्यत्रापि किं बाधशब्दात् क्विबन्तात्तिप्, उत बाधृधातुरिति संदेह इति कुदेश्यम् । स्कन्धादिपदसंनिधानेऽपि तस्यानिवृत्तेः । ‘तेन त्वामनुनाथते कुचयुगम्—‘ इत्यादिकमत्रत्यमुदाहरणं प्रमादात् काव्यप्रकाशकृता पददोषेषु लिखितम् । यथा च । ‘उदपूतितः को न हीयते’ इति रुद्रटेन । तत्र हि ‘अपादाने चाहीयरुहोः’ इति तसिप्रत्ययनिषेधः । स च पदान्तरसंनिधानेनैवेति स्वयमालोचनीयम् । शिलावितानत्र्यक्षवक्ष इत्युपलक्षणम् । अधिपतिगाण्डीविशब्दावपि बोद्धव्याविति ॥