035 मित्याह—यया कयाचिदिति । औष्ठ्यकण्ठ्यादिकं वा तद्रूपसमानश्रुतिकमादौ यस्य तथाभूतस्य पदस्य प्रत्यासत्तिः । ‘तद्रूपा हि’ इति पाठे व्यक्त एवार्थः । अत एव सानुप्रासा ततश्च रसावहेत्यर्थः । यदाह—‘कङ्कणादिविमुक्तापि कान्ता किमपि शोभते । कुङ्कुमेनाङ्गरागश्चेत्सर्वाङ्गीणः प्रवर्तते ॥’ इति ॥

विकटतामात्रभावस्यादोषत्वाद्विशेषयन्नाह—

यस्तु रीतेरनिर्वाहादौदार्यस्य विपर्ययः ।
वाक्यं तदनलंकारमलंकारविदो विदुः ॥ ४१ ॥

यथा—

‘दीर्घपुच्छश्चतुष्पादः ककुद्मांल्लम्बकम्बलः ।
गोरपत्यं बलीवर्दस्तृणमत्ति मुखेन सः ॥ ४९ ॥’

तदिदमपुष्टार्थत्वादनुत्कृष्टविशेषणमनुदारं निरलंकारमाचक्षते सोऽयमौदार्यविपर्ययो नाम शब्दार्थप्रधानो गुणविपर्ययो दोषः । यदाह—

श्लाघ्यैर्विशेषणैर्युक्तमुदारं वाक्यमिष्यते ।
यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः ॥ ४२ ॥
उत्कर्षवान्गुणः कश्चिदुक्तेर्यस्मिन्प्रतीयते ।
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः ॥ ४३ ॥

यस्तु रीतेरिति । काव्यरूपताप्रयोजकं शब्दार्थयोर्वक्रता उदारता नहि वक्रतामन्तरेण काव्यपदवीप्राप्तिस्तदाह—‘यत्तु वक्रं वचः शास्त्रे लोके च वच एव तत् । वक्रं यदनुरागादौ तत्र काव्यमिति श्रुतिः ॥’ इति । तदेतदलंकारसामान्यमस्याभावे निरलंकारता भवतीत्याह—अनलंकारमिति । दीर्घपुच्छ इत्यादौ प्रकृतोदाहरणे द्वयोरवक्रत्वं स्फुटयति—यथेति । विविच्य गुणप्रस्तावे कथयिष्यामः । अर्थपोषमाह—उत्कर्षवानिति । उभयप्रधानतामुपसंहरति—काव्येति ॥

तदेवं वाक्यदोषाँल्लक्षयित्वा क्रमप्राप्ता वाक्यार्थदोषा लक्षणीया इति तान्विभजते—

अपार्थ व्यर्थमेकार्थं ससंशयमपक्रमम् ।
खिन्नं चैवातिमात्रं च परुषं विरसं तथा ॥ ४४ ॥