व्यर्थमिति । विज्ञातो वा विगतो वार्थोऽभिधेयं प्रयोजनं यस्य तव्द्यर्थं स्वतन्त्रं च दूषणमिति वैशेषिके वक्तव्यम् । तथा हि—आहिषातामिति । अंहेर्गतिकर्मणो लुङि रूपम् । स च प्राचुर्यप्रयोगः प्राप्त्यवच्छिन्नं व्यापारप्रचयमभिधत्ते । तथा चार्थसिद्धायां प्राप्तौ शब्देनोपादानमनुचितं लोकानुसारेण काव्ये दृशिश्चाक्षुष एव ज्ञाने प्रयुज्यते । यथा—‘मया तावद्दृष्टो न खलु कलिकन्दर्पन्दर्पनृपतेर्गुणैस्तुल्यः कोऽपि क्वचिदपि किमश्रावि भवता । इति प्रश्नं श्रुत्वा क्वणितमिव कर्णान्तिकमगान्मृगाक्षीणां चक्षुश्चटुलभवता चान्ततरलम् ॥’ यथा वा—‘नैवादर्शि न चाश्रावि फलं मलयभूरुहः ।’ चक्षुश्च प्राप्तमेव गृह्णातीत्यर्थलब्धायां प्राप्तौ कथं शब्देनोपादानम् । तदिदमुक्तम्—एताभ्यामेवेति । रघुव्याघ्रादिप्रकरणादिकमासाद्य विशेषपर्यवसायि यौगिकत्वान्न तु विशेष एव शक्तम् । ‘उपगम्य रघुव्याघ्रः कच्छभूभागचारिणीम् । लुलुभे मुनिधेनुं तां वेलामिव महार्णवः ॥’ इति महर्षिप्रयोगात् । एतेन पुष्पवदादिपदवद्वचनमेदोऽप्यपास्तः । एवं च प्रकरणादिना रघुव्याघ्रपदं रामलक्ष्मणपरमेवेति पूर्वार्धे तयोरेव प्रक्रान्तत्वादुत्तरार्धे सर्वनाम्ना परामर्शो युज्यते, न तु स्वशब्देन । तनुप्रभृतिशब्दानां संबन्धिशब्दत्वात्समभिव्याहृतशब्दार्थसंबन्धकत्वं लोके व्युत्पन्नम् । यथा—‘करौ धुनाना नवपल्लवाकृतीर्वृथा कृथा मानिनि मा परिश्रमम् ।’ इति शब्दान्तरसंनिधाने तु क्वचित्ताद्रूप्यावगमो भवति । यथा—‘उमास्तनोद्भेदमनुप्रवृद्धो मनोरथो यः प्रथमं बभूव । तमेव मेनादुहितुः कथंचिद्विवाहदीक्षातिलकं चकार ॥’ तदिहान्यस्यानुपादानाच्छरभङ्गसंबन्धिन्येव तनुः प्रतीयते । जुहोतिश्च वह्न्याधारकमेव हविर्द्रव्यत्यागमभिधत्ते तेन ‘वह्नौ’ इत्यपि न वाच्यम् । गतार्थशब्दं व्याचष्टे—गम्यत इति । अस्मिन्नेवोदाहरणे निष्प्रयोजनत्वमाह—न चेति । शरभङ्गाश्रमगमनं तनुहोमश्चात्र वाक्यार्थद्वयं न प्रयोजनवत् । अस्य वाक्यस्य चरितार्थत्वात् । किं प्रयोजनान्तरगवेषणयेत्यत आह—अत इति । यद्वाक्यपोषणाद्यनौपयिकपदमप्रयोजकवचसा प्रागुक्तं तथा च प्रबन्धाद्यर्थपोषपर्यवसायि वाक्यमेव । इहाप्यवाच्यवचनस्य स्फुटत्वात् । न चाश्रमगमनतनुहोमौ करिष्यमाणवीररसोचितकथाशरीरे कामपि शोभामात्रामर्पेयत इति वाक्यस्य महावाक्यस्य चेति यथासंख्यमन्वयः । कथं पुनर्गतार्थ प्रसाधितस्येत्यादेरर्थपुनरुक्ताद्भिद्यत इत्यत आह—आर्थ्या 038 चेति । शब्दवृत्त्यैवावगतस्य शब्दवृत्त्या पुनरुक्तम् । अर्थंतो लब्धस्य शब्दवृत्त्या मणनमिंत्येकः प्रकारः । अर्थतो लाभं व्युत्पादयति—शास्त्रेति । अस्य रघुकुलभुवः शरभङ्गाश्रमगमनमितिहासाच्चक्षुषः प्राप्तस्यैव ज्ञानजनकत्वं शास्त्रात् । शरभङ्गसंबन्धिन्येव तनुर्लोकव्युत्पत्तेस्तेन नियमेन ह्यर्थतः प्राप्तिर्भवतीत्यभिप्रायः ॥