युक्तीति । सामान्यतस्तावदनुमानविरोधो यत्प्रमाणाभावः । नहि प्रमेयाभावे प्रमाणं प्रसिद्धम् । तदयमर्थो युक्तिः प्रमाणम् । आधूतकेसरेत्यादौ उदाहरणे क्वचिदेव व्यक्तिविशेषे केसरादिसंबन्धप्रतिपादनं कथमन्यथा तेषामेरण्डं निर्दिशति । ततो भवति प्रत्यक्षेणैव विरोधः । इह तु न तथा । नहि विशेषतः कापि कूर्मपृष्ठव्यक्तिरस्तीति सामान्याकारेण विवक्षितम् । ततश्च कमलजातेः पङ्कजप्रभवाया एव निश्चयात्कूर्मपृष्ठादुद्गमे न कश्चित्प्रमाणं कदापि कस्याप्यवतरतीत्याशयवान् व्याचष्टे—अत्रेति । अयुक्तियुक्तत्वादिति । युक्तेः प्रमाणत्वेनासंबद्धत्वादित्यर्थः ॥