144 वस्थितभागद्वयात्मिका मिश्रा । रूपमिश्रणात्तिलतण्डुलन्यायेन संकीर्णा । विजातीयवस्त्वन्तरव्यतिरेक एव लोके संकीर्णव्यवहारात् । या पुनः प्रकृतिभावेनापि भाषान्तरसंपर्कं न सहते सानन्यगामिनी । संस्कारसंभेदेन वा प्रकृतिभावेन वा नान्यं गच्छति यतोऽपशब्दरूपा सापभ्रष्टा ॥

तासूत्तमपात्रप्रयोज्या संस्कृतजातिः शुद्धा यथा—

‘उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १ ॥’

तासूत्तमेति । पात्रलक्षणमुत्तमादिभेदश्च पञ्चमे वक्ष्यते । उन्नमितैकेति । पदानि प्रकृतानङ्गलेखोचितानि निर्व्याजप्रेमगर्भाणि । अत एवावापोद्वापप्रतिसंधाननिमग्नमानसायाश्चिन्तानुभावरूपं भ्रूलताविरेचितमिवासीत् । हस्ततलनिहितैककपोलायास्तादृक्पुलकितैककपोलदर्शनादतिमानात्मा शृङ्गारः सुप्रबुद्ध इव तत्कालं नायकस्यापीति मिथोऽनुबन्धलक्षणापूर्वानुरागकक्षामधिरूढा रतिरेव काव्यसर्वस्वायते । अत्र च कस्यचित्पदस्य भाषान्तरसाधारण्येऽपि भूयसामुदाहरणत्वम् । एवमन्यत्रापि ॥

मध्यमपात्रप्रयोज्या प्राकृतजातिः शुद्धा यथा—

‘तुज्झ ण आणे हिअअं मम उण मअणो दिआ अ रत्तिं अ ।
णिक्किव तवेइ वलिअं तुह जुत्तमनोरहाइं अङ्गाइं ॥ २ ॥’
तव न जाने हृदयं मम पुनर्मदनो दिवा च रात्रिं च ।
निष्कृप तपति बलवत्त्वयि युक्तमनोरथान्यङ्गानि ॥]

तुज्झेति । वलिअं बलवत्कृतमभिमुखम् ॥

हीनपात्रप्रयोज्या मागधिका यथा—

‘शद माणशमंशभालके कुम्भशहश्श वशाहि शंचिदे ।
अणिशं च पिआमि शोणिदे वलिशशदे शमले हुवीअदि ॥ ३ ॥’
शतं मानुषमांसभारकाः कुम्भसहस्रं वसाभिः संचितम् ।
अनिशं च पिबामि शोणितं वर्षशतं समरो भविष्यति ॥]

शद माणुशेति । शतं मानुषमांसभारः कुम्भसहस्रं वसाभिः संचितम् । अनिशं च पिबामि शोणितं वर्षशतं समरो भविष्यति ॥’ अत्र मांसादिलाभहेतुतया समराशंसनं बीभत्समुन्मुद्रयद्धीनपात्रतां द्रढयति ॥