येनेति । ध्वस्तमनोभवेन दग्धकामेन बलिजितो नारायणस्य कायः पुरा त्रिपुरदाहव्यतिकरेऽस्त्रीकृतः शरतां नीतः, गङ्गां भागीरथीं दधे, अन्धको दैत्यविशेषस्तस्य क्षयो विनाशः, बर्हिपत्रो मयूरवाहनः कार्तिकेयः, शशिमच्चन्द्रकलाङ्कितं शिरो विश्वमोहच्छिदुरस्य हर इति स्तुत्यं च नाम, भुजङ्गा एव हारवलयानि यस्य, सर्वदा सर्वकालमिति उमाधवपक्षे । माधवपक्षे तु—येन ध्वस्तं विनाशितमन: शकटम्, अभवेन संसारबन्धरहितेन,बलिं जितवान्यः कायः स पूर्वं समुद्रमथनावसरेऽभृतगृहयालुदैत्यव्यामोहनाय स्त्रीरूपतां नीतः, अगं गोवर्धनाख्यं गां पृथिवीमेकार्णवमग्नामुद्धृतवान् । अन्धका यदुविशेषास्तेषां क्षयो निवासः । बर्हिणो मयूरस्य पत्त्रं पिच्छं तत्प्रियः ‘बर्हिपत्त्रकृतापीडम्’ इति गोपालध्याने गौतमेनाभिधानात् । शशिनं मन्थातीति क्विप् । शशिमद्राहुस्तस्य शिरोहर इति स्तुत्यं च नाम । भुजङ्गहा गरुडः स इष्टो यस्य । रवे शब्दब्रह्मणि लयो यस्य सः, तथा सर्वदो यावदभिमतप्रद इति । ननु विभिन्नरूपाणां शब्दानामुच्चारणे तन्त्रतया श्लेष एवायं न पठितिरित्यत आह—तयोश्चेति । श्लेषो हि श्लिष्यमाणयोः परस्परसंबन्धे भवति । स च संबन्धो रूपतात्पर्यसंबन्धलक्षणो वा अङ्गाङ्गिभावोवा उपमानोपमेयभावो वा यथाग्रे वक्ष्यते । न चायमेकोऽत्राभिमतः किंत्वेकपरमेवोच्चारणे पदभेदेनार्थान्तरं गमयतीति पठितिरेवेयम् । एतेन समाध्युक्तिसमासोक्तिभ्यामपि भेद उक्तः । तत्किमुच्चारणतन्त्रता नास्त्येवेत्यत आह—श्लेषोपसर्जनेति । यत्र हि यस्य प्राधान्येन विवक्षा तत्र तेन व्यपदेशो युक्तः, अत एव विवक्षान्तरेण श्लेषव्यवहारोऽप्यत्र समर्थनीय एव ॥