अत्र इयन्मात्रस्तनादीनां तथाभूतहस्ताभिनयैः सह पठनात्तथावि धार्थविशेषो गम्यते ॥
अपदेशोऽप्यभिनयविशेष एव । यथा—
इत्यात्मानमपदिश्य ब्रूते ॥'
एद्दहमेत्तेति । अत्र सर्वपदानामर्थान्तरसाधारणतया न तावदभिमतपरिमाणविशेषप्रतीतिरुपजायते, यावदुच्चारणसहकारिभूतप्रसारितकरद्वयकोषप्रसृतिभिदङ्गुलिप्रसारिताङ्गुलीगणनारूपाभिनयप्रतिसंधानं न भवति । तेनाभिनयपठितिरियम्, साक्षादिव वस्तुस्वरूपबोधिका क्रियाभिमुख्यनयनादभिनय इत्युच्यते । तदिदमाह—तथाभूतेत्यादि । अपदेशोऽपीति । आत्मनिर्देशिका क्रियापदेशः । अस्याभिनयविशेषत्वेऽपि कान्तिकरतया पृथगुपादानम् । यावच्च स्वरूपसमुच्चारणविशेषणं नानुसंधीयते न तावच्छ्रीप्राप्तिक्षमयोः कारणविशेषः प्रतीयत इति ॥
कान्त्या यथा—
अत्रावलम्बनमबलं वनमिति पदे पदद्वये वा द्वितीयचतुर्थस्थानयोर्यौ वकारबकारौ तयोरन्तःस्थपवर्गाभ्यां पवर्गान्तःस्थाभ्यां च कान्तिमति पाठेऽर्थभेदो जायते ॥
यस्यारिजातमिति । कान्तिश्छाया सा अप्रतिहतरूपा पदवद्वर्णेषु न संभवतीति श्रुतिरूपा गृह्यते । तथाहि । अवलम्बनमित्यत्र द्वितीयचतुर्थस्थानस्थयोर्वकारबकारयोः क्रमेणान्तःस्थपवर्गभावानुसंधानेऽवलम्बनमित्येकपदतायां त्राणहेतुमपश्यदित्यर्थः प्रतीयते । यदा तु द्वितीयेऽबलं वनमित्यत्र तयोरेव पवर्गान्तःस्थभावानुसंधानं भवति तदा बलं वनमिति च्छेदेन पदद्वयसंपत्तौ बलरहितं सद्वनमरण्यं ययावित्यर्थान्तरप्रतीतिरुपजायते । तदिदमुक्तम्—पदे पदद्वये