195 वेति । अपश्यत् शयनभोजनशून्यम् । शयनं शीः, अदनं अत्, निर्झरसंभोगैः निर्झरजलमात्रोपभोगैरप्यपगतं अत एव बलरहितम् । अत्र च यमकेन संसृष्टिरस्य बोद्धव्या । आवृत्तिमादाय यमकमन्यथा भविष्यति ॥

अपरे पुनः पठितिमन्यथा कथयन्ति—

पदपादार्धभाषाणामन्यथाकरणेन यः ।
पाठः पूर्वोक्तसूक्तस्य पठितिं तां प्रचक्षते ॥ ५७ ॥

अपरे पुनरिति । अन्यथेत्यतः परमपि शब्दोऽध्याहार्यः । पादाद्यन्यथाकरणेनापि हि प्रकृतमुच्चारणमेव विशिष्यते । यदाह—पूर्वोक्तसूक्तस्येति । अत एव श्लोकान्यथाकरणेन पठितिर्न संभवति । तेन प्रागुक्तभेदैः सह द्वादशप्रकारा पठितिरिति तात्पर्यम् । यद्यपि च पादाद्यन्यथाकरणमपि पदभेदप्रकार एव तथापि न तत्र पूर्वोक्तत्यागः, इह तु तत्परित्यागेन पदान्तरकल्पनमित्येतावान्विशेषः ॥

तत्र पदान्यथाकरणं द्विधा—प्रकृतितः, विभक्तितश्च ।

तत्र प्रकृतितो यथा—

‘असकलहसितत्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाज्ज्ञातकर्णोत्पलानि ।
पिबतु मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः ॥ ८४ ॥’

अत्र त्वयीत्यस्य स्थाने मयीति यदा पठ्यते, तदैतत्प्रार्थनावाक्यमप्यनुमतिवाक्यं भवति ॥

विभक्तितो यथा—

‘सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम् ॥ ८५ ॥’

अत्र यदा पाण्डुसुतः सुयोधनमित्यस्य स्थाने ‘पाण्डुसुतं सुयोधनम्’ इति पठ्यते, तदैतदमङ्गलार्थमपि सुयोधने मङ्गलार्थं भवति ॥

तत्र पदं विभत्त्क्यन्तं विशेषणविशेष्यभेदेन द्विधा क्रियते इत्याह—पदान्यथाकरणं द्विधेति ॥