198
तदव्यपतयमकं व्यपेतयमकं तथा ।
स्थानास्थानविभागाभ्यां पादभेदाच्च भिद्यते ॥ ५९ ॥
यत्र पादादिमध्यान्ताः स्थानं तेषूपकल्प्यते ।
यदव्यपेतमन्यद्वा तत्स्थानयमकं विदुः ॥ ६० ॥

सामान्यतो विभजते—अव्यपेतेति । व्यवायो व्यवधानम् । तदेतदुभयमपि स्थानादिभेदेन त्रिधा भवतीति पूर्वोक्तानुवादपूर्वकमवान्तरविभागमाह—तदिति । पाद आदिमध्यान्ता अर्थादेतेषु विशेषतोऽनुल्लिखनादस्थानयमकमुक्तं भवति । एतदपि द्विधा ॥

चतुस्त्रिव्द्येकपादेषु यमकानां विकल्पनाः ।
आदिमध्यान्तमध्यान्तमध्याद्यन्ताश्च सर्वतः ॥ ६१ ॥

चतुरादिपादविकल्पेन विषयतो भिद्यत इत्याह—चतुस्त्रीति । आदिश्च मध्यश्चान्तश्चेति आदिमध्यान्तास्त्रयः शुद्धाः । मध्यान्तौ मध्यादी आद्यन्तौ आदिमध्यान्ताश्चेति मिलित्वा चत्वारः संकीर्णाः । सर्वत इति सार्वविभक्तिकस्तसिः ॥

अत्यन्तबहवस्तेषां भेदाः संभेदयोनयः ।
सुकरा दुष्कराश्चैव दर्श्यन्ते तत्र केचन ॥ ६२ ॥

एवं पादविकल्पानामाद्यादिविकल्पानां च परस्परयोजनेऽन्येऽपि बहवः प्रकारा ग्रन्थगौरवकारिणो भवन्तीत्याह—अत्यन्तेति । न च कठोरनीरसत्वादवश्यवक्तव्या इत्याह—दुष्करा इति । शिष्यव्युत्पत्तये तु कतिपये दर्शनीया इत्याह—तत्र केचनेति ॥

तत्र चतुष्पादयमकेषु अव्यपेतमादियमकं यथा—

‘राजीवराजीवशलोलभृङ्गं मुष्णन्तमुष्णं ततिभिस्तरूणाम् ।
कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षोभितमुद्वहन्तम् ॥ ९२ ॥’

राजीवराजी पद्मपङ्क्तिस्तद्वशा लोलाः सस्पृहा भृङ्गा यत्र तम् । यतस्ततिभिस्तरूणां पङ्क्तिभिरुष्णं धर्मं मुष्णन्तमपहरन्तम् । कान्तो मनोज्ञोऽलकान्तश्चूर्णकुन्तलच्छटा यासां ताः । यस्माद्रक्षोभी राक्षसैरक्षोभितमधर्षितम् । अत्र प्रथमे पादे पूर्वं सार्थकमपरमनर्थकम् । द्वितीयादिषु द्वयमप्यनर्थकम् । एवमन्यत्रापि यथायथमवगन्तव्यम् ॥