200

मध्यान्तयमकं यथा—

‘उदयि ते दयिते जघनं घनं स्तनक्ती नवतीर्थतनुस्तनुः ।
सुमनसामनसा सदृशौ दृशौ द्युकुरुमे कुरु मेऽभिमुखं मुखम् ॥ ९७ ॥’

उदय उद्भवो विस्तारवत्त्वरूपस्तद्युक्तमुदयि । घनं मांसलम् । नवेन तीर्थेन रजसा तनूकृता । ‘स्त्रीरजःशास्त्रयोस्तीर्थम्' । सुमनसां कुसुमानामनः शकटं तेन सदृशौ । ‘सुमनसां मनसाम्’ इति पाठे सुमनसः सहृदयास्तन्मनसां सदृशौ संवादिन्यौ । द्यौश्च कुश्च द्युकू द्यावापृथिव्यौ तयोरुमा लवणाकरो लावण्यविश्रान्तिस्थानत्वात् ॥

आदिमध्यान्तयमकं यथा—

‘सीमासी मानभूमिः फणिबलवलनोद्भाविराजीविराजी हारी हारीतवद्भिः परिसरसरणावस्तमालैस्तमालैः ।
देवादेवाप्तरक्षःकृतभव भवतोऽग्रे न दीनो नदीनो मुक्तामुक्ताच्छरत्नः सितरुचिरुचिरोल्लासमुद्रः समुद्रः ॥ ९८ ॥’

सीमा मर्यादा तस्यामासनशीलः । मानं परिमाणातिशयः मानः पूजा वा, तद्भूमिः । फणिबलं भुजङ्गसमुदायस्तस्य यद्वलनं तेनोद्भाविनी या राजी रेखा तया विराजनशीलः । हारीताः पक्षिविशेषास्तद्युक्तैः । परिसरसरणिस्तीरमार्गस्तत्रास्तमालैः क्षिप्तमालासन्निवेशैः । खण्डरूपतामापन्नैरिति यावत् । ईदृशैस्तमालैः हारी मनोहर इति संबन्धः । देवादेवाः देवासुरास्तैरभृतलाभेनान्तरवस्थानेन चाप्ता रक्षा यस्मात्स तथा कृतभवः संपादितोद्भवः । नदीनामिनः स्वामी समुद्रो भवतोऽग्रे न दीनः? काक्वा दीन एव । मुक्ताभिरमुक्तान्यच्छानि रत्नानि यत्र स तथा । सितरुचिश्चन्द्रस्तेन रुचिरा मनोहरा उल्लासमुद्रा वृद्धिकाष्ठा यस्य । तदेतेषामुदाहरणानां चतुर्ष्वपि पादेषु यथोक्तं यमकमस्तीति चतुष्पादयमकप्रपञ्जोऽयम् ॥

त्रिपादयमकेष्वव्यपेतमादियमकं यथा—

‘विशदा विशदामत्तसारसे सारसे जले ।
कुरुते कुरुते नेयं हंसी मामन्तकामिषम् ॥ ९९ ॥’

नास्य चतुरः प्रयोग इति शेषभेदा नोदाह्रियन्ते ॥