201

एवं त्रिपादयमकप्रपञ्चोऽपि भवतीत्याह—त्रिपादयमकेष्विति । विशदा धवला । विशन्त आमत्ताः सारसा यत्र तस्मिन् । सारसं सरःसंबन्धि । मन्मथोन्माथदायितया कुत्सितं रुतं कुरुतम् । मध्यान्तादीनि त्रिपादयमकानि किमिति नोदाहृतानीत्यत आह—नास्येति ॥

द्विपादयमकेष्वव्यपेतमादियमकं यथा—

‘करोति सहकारस्य कलिकोत्कलिकोत्तरम् ।
मन्मनो मन्मनोऽप्येष मत्तकोकिलनिःस्वनः ॥ १०० ॥’

उत्कलिका उत्कण्ठा तदुत्तरं तटं कूलम् । मन्मनोऽव्यक्तमधुरः । मन्मनो मदीयं मनः ॥

तदेव मध्ययमकं यथा—

‘तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषङ्गिणि ।
गुणवदाश्रयलब्धगुणोदये मलिनिमालिनि माधवयोषिताम् ॥ १०१ ॥’

अलिनि यो मलिनिमा कज्जलाभत्वं स माधवयोषितां यादवस्त्रीणां विलोचनतारकास्तुलयति स्मेति संबन्धः ॥

अन्तयमकं यथा—

‘खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतूकृतोच्चैर्वानरं नरम् ॥ १०२ ॥’

एवमादिमध्यान्यपि द्रष्टव्यानि । एकपादयमकेष्वव्यपेतमाद्यन्तयोरनुल्लेखीति नोदाह्रियते ॥

खण्डितेति । केतूकृतो ध्वजतां नीतः । उच्चैर्वानरो हनूमान् । नरोऽर्जुनः ॥ आद्यन्तयोरनुल्लेखीति । महाकविप्रयोगेषु विशेषशोभाकरतया प्रसिद्धेरभावोऽनुल्लेखो न त्वसंभव एव । एवं मध्ययमकं त्वित्यादौ बोद्धव्यम् ॥

मध्ययमकं तु चतुर्थपादं एवोल्लिखति । यथा—

‘विलुलितालकसंहतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।
तनुतरङ्गततीः सरसां दलत्कुवलयं वलयं मरुदाववौ ॥ १०३ ॥’