204

मदन एव दारु काष्ठं तत उत्थितः । शिखा मञ्जरीच्छटा ज्वाला च । स्वभावताम्रमेव मधुमदेन यव्द्दिगुणमरुणं हूणमुखं तच्छविर्दारुणो भयंकरो मम हृदा समं दिशोऽरुणद्रुद्धवान् । आम्रवणमेव तापकारितयानलो वह्निः । अत्र यद्यपि प्रतिपादमपि व्यवायेन मध्ययमकं संभवति, तथापि न तथोल्लेखीति पूर्वापरसदृशमेवोदाहृतम् ॥

अन्तयमकं यथा—

‘तव प्रिया सच्चरिताप्रमत्त या विभूषणं धार्यमिहांशुमत्तया ।
रतोत्सवामोदविशेषमत्या न मे फलं किंचन कान्तिमत्तया ॥ ११० ॥’

सच्चरिताप्रमत्तेति । सोत्प्राप्तं संबोधनद्वयम् । या तव प्रिया रतोत्सवामोदविशेषेण रतिकेलिहर्षप्रकर्षेण मत्ता तयेदमंशुमन्मणिकिरणकरम्बितं विभूषणं धार्यम् । अर्हे कृत्यः । त्वया कि मिति न धार्यमित्यत आह—न मे भूषणसंपाद्यया कान्त्या किंचन फलम् । ‘कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन’ इति न्यायात् ॥

आदिमध्ययमकं यथा—

‘घनगिरीन्द्रविलङ्घनशालिना वनगता वनजद्युतिलोचना ।
जनमता ददृशे जनकात्मजा तरुमृगेण तरुस्थलशायिनी ॥ १११ ॥’

अत्रापि सान्तरनिरन्तरप्रसङ्गे पादभेद एव संकरः । संकीर्णव्य पेतानि तु प्रतिपादमेव संभवन्तीत्युदाहरति—आदिमध्येति । घना गिरीन्द्रा माल्यवन्तमारभ्य सुवेलं यावद्गिरिपरम्परा । वनजं पद्मम् । जनानां मता संमता । तरुमृगः शाखामृगो हनूमान् । अत्र घनेत्यादिशब्दभागः पादचतुष्टयेऽपि गिरीन्द्रेत्याद्यनावृत्तव्यवहित एवादिमध्ययोरावर्तत इति ॥

आद्यन्तयमकं यथा—

‘विहगाः कदम्बसुरभाविह गाः कलयन्त्यनुक्षणमनेकलयम् ।
भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ११२ ॥’

गाः कूजितानि कदम्बसौरभानीतवर्षर्तुपयोदाः कलयन्ति कलरूपतां नयन्ति । कूजितक्रियान्तरालकालो द्रुतमध्यविलम्बितात्मानेको लयः । अभ्रं मेघः । नीपः