207

अन्तयमकं यथा—

‘यस्याहुरतिगम्भीरगलदप्रतिमङ्गलम् ।
स वः करोतु निःसङ्गमुदयं प्रति मङ्गलम् ॥ ११९ ॥’

गम्भीरो मांसलः । गलः कण्ठः । मङ्गलं कल्याणम् । निःसङ्गमप्रत्यूहम् । उदयः संयत्तं प्रति ॥

एवमावृत्त्याधिक्येऽपि यथा—

‘अवसितं हसितं प्रसितं मुदा विलसितं ह्रसितं स्मरभासितम् ।
न समदाः प्रमदा हतसंमदाः पुरहितं विहितं न समीहितम् १२०’

अवसितं समाप्तम् । मुदा प्रसितमनुबद्धम् । विलसितं ह्रसितं भ्रष्टम् । स्मरेण भासितं शोभितम् । संमदो हर्षः । अत्र प्रतिपादं सितं सितमित्यादि द्वाभ्यामेव यमकं निर्व्यूढम् । तृतीयं तु सितमित्यादिकमाधिक्यमेव प्रयोजयति, तच्च सर्वमनावृत्ति व्यवहितमिति व्यपेतयमकमेव भवति ॥

आवृत्त्येकरूपतायामपि । तत्रादिमध्ययमकं यथा—

‘सारयन्तमुरसा रमयन्ती सारभूतमुरुसारधरातम् ।
सारसानुकृतसारसकाञ्चि सा रसायनमसारमवैति ॥ १२१ ॥’

सारयन्तमात्मसमीपमानयन्तम् । उरसा घनतरस्तनाढ्येन । सारभूतं जीवितसर्वस्वतामापन्नम् । उरुर्महान् । सार उत्कर्षः । अनुकृतसारसा सारसकूजितसंवादिनी । सारसा सशब्दा काञ्चिर्मेखला यस्याः सा तथा । सारसानुकृतेति ‘जातिकालसुखादिभ्यः परा निष्ठा वक्तव्या’ इति निष्ठायाः परनिपातः । रसायनं सर्वोपद्रवहरं भेषजम् ॥

मध्यान्तयमकं यथा—

‘लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन ।
व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ १२२ ॥’