209 व्यपेतमिति । द्वाभ्यामप्यन्वीयते । तत्प्रथमं पादश्लोकतया द्विविधमित्याह—पादे श्लोके चेति । पादसंधौ च यद्बध्यते तत्स्वभेदे चान्यभेदे च स्थूलं सूक्ष्मं च भवतीत्यर्थः । एतद्यथास्थानं विवरिष्यते—स्थूलं सूक्ष्मं चेति पूर्वेणापि संबध्यते । बहुवर्णावृत्ति स्थूलम्, अबहुवर्णावृत्ति सूक्ष्मम् ॥

अत्र पादे स्थूलाव्यपेतं यथा—

‘वीनां वृन्दं चैतत्कूटे समरुति सुतरुणि समरुति सुतरुणि ।
चित्तं वा तेन क्रोडेऽस्मिन्सुरमणिगुणरुचि सुरमणि गुणरुचि १२४ ॥’

अत्र स्थूलेनैवावृत्तिद्वयेन श्लोकपादयोर्व्याप्तत्वादादिमध्यान्तता न संभवतीत्यस्थानयमकमिदं स्थूलाव्यपेतमुच्यते ॥

वीनां पक्षिणां वृन्दम् । कूटे श्रृङ्गे । समरुति मारुतसहिते । सुतरुणि शोभनवृक्षे । कूटविशेषणद्वयमिदम् । समरुति समानकूजिते । सुतरुणीति प्रियासंबोधनम् । वाशब्द इवार्थे । सुरमणीनां देवमणीनां गुणेन दाम्ना रोचते शोभत इति क्विप् । तस्मिन्क्रोडे । सुरमणीति संबोधनम् । गुणेषु रुचिर्यस्य तद्गुणरुचि चित्तम् । अत्र समरुति सुतरुणि सुरमणि गुणरुचीति द्वितीयचतुर्थपादयोर्वर्णाष्टकावृत्तिद्वयमिति पादव्यापकमव्यपेतमुच्यते ॥

पाद एव सूक्ष्माव्यपेतं यथा—

‘स्वस्थः शैले पश्यास्तेऽसौ रुरुरुरुरुतिरतितनुतनु मतिमति ।
लोको यद्वद्दैत्यानीकं गुरु गुरुमयि मयि तरितरि सतिसति ॥ १२५ ॥’

अत्र पुनः सूक्ष्मेणावृत्त्यष्टकेन श्लोकपादौ व्याप्ताविति अस्थानयमकमिदं सूक्ष्माव्यपेतमुच्यते ॥

रुरुर्बहुश्रृङ्गो मृगः । उरुरतिरुपचितप्रीतिः अतितनुरतिकृशा तनुर्यस्या इति संबोधनह्रस्वः । मतिमति मतिरुचितज्ञानं तद्वतीत्यपि संबोधनम् । पश्येति वाक्यार्थकर्मकम् । गुरु विपुलम् । गुरुः शुक्रः । मयो दैत्यविशेषः । तद्युक्तं तरितरि विजयमाने मयि सति । सतीति संबोधनम् । सती शोभना । यथा मयदैत्यानीकविजये लोकोऽयं सुखमास्ते तथासौ रुरुरिति वाक्यार्थोऽभिमतः । तदिदं वर्णद्वयावृत्त्या सूक्ष्मं न चान्योन्यव्यवहितमव्यवहितमित्यव्यपेतं च भवति । तदेतदेकस्मिन्नपि पादेऽनुक्तद्वयादिपादविकल्पेन च बोद्धव्यम् ॥