214 मकरन्दा । अत एव मत्ता नमन्ति तामरसानि यस्याः सकाशात्सा तथा । भरनमितपद्मकुहरप्रवेशान्मधुरससेवया च भ्रमरमालया खेदो नाधिगतः । अत्र द्वितीयचतुर्थपादयोः ‘रविं दधाने रविन्द्रधाने’ इति, ‘रसा नमत्ता रसा न मत्ता’ इति द्वाभ्यामेव वृत्तिभ्यां व्याप्तत्वादाद्यादिविभागासंभवे अस्थानयमकमेवेदम् । व्यपेतं तु कथं भवतीत्यत आह—मा भूदिति ॥

पाद एव सूक्ष्मव्यपेतं यथा—

‘करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेऽणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ १३३ ॥’

अत्र विषमपादयोः करेणुः करेऽणुरित्यादावावृत्तम् । समपादयोस्तु रेणुरेणुरिति । तत्तु स्वापेक्षया न मध्यमन्यापेक्षया नादिरित्यस्थानयमकमिदं सूक्ष्मव्यपेतमुच्यते ॥

करेति । करेणुर्हस्ती प्रस्थितश्चलितस्तेन घण्टा रेणुरशब्दायन्त । सहस्रश इति क्रियाविशेषणम् । स्थूलहस्तेऽणुः सीत्कारविकीर्णतया परमाणुसाद्भूतः । तेन शीकरेण । ननु विषमपादयोराद्यक्षरेण विनाकरणेन मध्ये समपादयोः पुनरादावेव रेणुरित्यावृत्तिरस्ति तत्कथमस्थानयमकमिदमित्यत आह—तत्त्विति । अन्तो वृत्तैरसंभावितत्वादादौ मध्ये वा सा वाच्या । न चेयमपि संभवति । रेणुरेणुरिति शब्दभागमपेक्ष्य प्रवृत्तायामावृत्तौ तद्विरहात् ॥

श्लोके स्थूलव्यपेतं यथा—

‘जयन्ति ते सदा देहं नमस्यन्ति जयन्ति ते ।
भवान्यतो नमस्यन्ति सदादेहं भवान्यतः ॥ १३४ ॥’

अत्र स्थूलव्यपेतावृत्तिचतुष्टयेन श्लोकोऽपि व्याप्त इत्यादिमध्यान्ताभावादस्थानयमकमिदं स्थूलव्यपेतमुच्यते ॥

हे जयन्ति, ये तव देहं दुर्गातारादिरूपेण प्रपञ्चमानां मूर्तिं सदा नमस्यन्ति ते जयन्ति सर्वोत्कर्षेण वर्तन्ते । यतस्त एव भवान्संसारसरणिमस्यन्ति क्षिपन्ति । भवात्परमेश्वरात् अन्यता भेदस्तेनोनमतः श्रेयस आदानं ग्रहणं यत्र तादृशी ईहा चेष्टा यत्रेति द्वयमसनक्रियाविशेषणम् । अत्र जयन्ति ते इति प्रथमद्वितीययोराद्यन्तौ