219

तेषु व्यपेतो यथा—

‘अनेकपादभ्रमदभ्रसालं मान्ये दृशाभीरुपतत्त्रिकूटम् ।
अनेकपादभ्रमदभ्रसालं मान्ये दृशा भीरु पतत्त्रिकूटम् ॥ १४६ ॥’

अनेकेषु पादेषु प्रत्यन्तपर्वतेषु भ्रमन्त्यभ्राणि मेघा एव सालो वरणः प्राकारः, मान्याः पूजार्हा ईदृशा यथादृश्यं तथैव मनोहारिणोऽभीरवो भयरहिताः पतत्त्रिकूटाः पक्षिसङ्घा यत्र, अनेकपा हस्तिनस्तेषामदभ्र उत्कटो मदस्तं भरन्ति धारयन्तीति मूलविभुजादित्वात्कप्रत्यये अनेकपादभ्रमदभ्राः साला वृक्षा यत्र । मान्ये भीर्विति संबोधनद्वयम् । मानःशृङ्गारभावस्तदर्हा दृशा त्रिकूटं पर्वतमालोकयेति ॥

अव्यपेतो यथा—

‘घनं विदार्यार्जुनबाणपूगं घनं विदार्यार्जुनबाणपूगम् ।
ससार बाणोऽयुगलोचनस्य ससारबाणोऽयुगलोचनस्य ॥ १४७ ॥’

विदारी कन्दभेदः, अर्जुनः ककुभः, बाणो गुल्मविशेषः, पूगो गुवाकः । वृक्षद्वन्द्वत्वात्पाक्षिक एकवद्भावः । अर्जुनः पार्थस्तस्य बाणपूगं शऱसमूहस्तं विदार्य भित्त्वा । अयुगलोचनस्त्रिनेत्रः किरातस्वरूपधरस्तस्य ससार गतः सारबाण उत्कृष्टशब्दस्तेन सहितोऽयुगद्वितीयः, अलोचनस्य दुर्ज्ञानस्य ॥

व्यपेताव्यपेतो यथा—

‘कलापिनां चारुतयोपयान्ति वृन्दानि लापोढघनागमानाम् ।
वृन्दानिलापोढघनागमानां कलापिनां चारुतयोऽपयान्ति ॥ १४८ ॥’

पादत्रयाभ्यासस्तु नातिसुन्दर इति तद्भेदा नोदाह्रियन्ते ॥

के पानीये लपनशीला हंसास्तेषां वृन्दानि चारुतया मनोज्ञभावेनोपयान्ति संगच्छन्ते । लापेन परस्परसंलापमात्रेणोढः प्राप्तो घनो निरन्तर आगम आगमनं येषाम् । वृन्दानिलो वात्या तेनापोढो निराकृतो घनागमो मेघदुर्दिनं कलापिनो मयूरा आरुतयः समन्ततः केकायितानि अपयान्ति तिरोभवन्ति । एकश्लोके पादत्रयाभ्यासस्यासंभवाच्छ्लोकान्तरे च तथा सौन्दर्याभावात्पादत्रयाभ्यासो न चिन्तनीय इत्यत आह—पादत्रयेति ॥

एकाकारचतुष्पादं महायमकमुच्यते ।
श्लोकाभ्यासश्च तत्राद्यं पुनरभ्यासमर्हति ॥ ६७ ॥