147

नात्युत्तमभूमिकास्थोत्तमपात्रप्रयोज्या संस्कृतपैशाची साधारणी यथा—

‘चम्पककलिकाकोमलकान्तिकलापाथ दीपितानङ्गी ।
इच्छति गजपतिगमना चपलायतलोचना लपितुम् ॥ ८ ॥’

एवं संस्कृतापभ्रंशादिसाधारण्यः प्राकृतादिभाषान्तरसाधारण्यश्च द्रष्टव्याः ॥

नात्युत्तमेति । अनङ्गस्येयमानङ्गी ॥

वक्तृविषयौचित्यादिप्रयोज्या मिश्रा यथा—

‘जयति जनताभिवाञ्छितफलप्रदः कल्पपादपो गिरिशः ।
जअइ अ तमल्लिअन्ती गिरितनया पणइकप्पलआ ॥ ९ ॥’
[जयति च तमालीयमाना गिरितनया प्रणयिकल्पलता ।]

एवं भाषान्तराणामपि मिश्रीभावो द्रष्टव्यः ॥

वक्तृविषयेति । यदोत्तमादिषु नानावक्तृभिरेका काव्यसमस्या क्रियते, भिन्नभाषोचितवर्णनीयविषयं वा काव्यमेकमुपक्रम्यते, यदा वा शक्तिनिरूपणाय कवेरेव नानाभाषामयं काव्यमारब्धं स्यात्, तदा कथं नालंकारपदवीमध्यास्ते । अत आह—मिश्रेति । तमल्लिअन्ती तमालीयमाना ॥

दुर्विदग्धादिपात्रप्रयोज्या संकीर्णा यथा—

‘अकटगुमटी चन्द्रज्योत्स्ना कलं किल कोइलो लवइ अ मुहुर्याम्यो वायुर्निवाअर वाइ अ ।
अवि सखि अला रक्ताशोकस्तवापि मनोमुदे न कज न कजं मानेनाद्य प्रियं प्रतिजाहुदा ॥ १० ॥’

सोऽयं संस्कृतमहाराष्ट्रापभ्रंशयोगस्तिलतण्डुलवत्संकीर्णा जातिः । एवं प्राकृतापभ्रंशसंकरोऽपि द्रष्टव्यः ॥

दुर्विदग्धादीति । नागरकभावमवाप्तस्तद्भूमिकामवलम्बमानो दुर्विदग्धः । आदिपदात्पूर्वोक्ताः समस्यादयः । अकटमाश्चर्यम् । गुमटी मनोज्ञा । आस्फालितखङ्गस्येव स्फुरणे लवइ इति महाराष्ट्रदेशी । तथा च प्रयोगः—‘लवइ अ