224

द्वितीयो यथा—

‘त्वमेव धातुः पूर्वोऽसि त्वमेव प्रत्ययः परः ।
अनाख्यातं न ते किंचिन्नाथ केनोपमीयसे ॥ १५७ ॥’

अत्र धातुरिति प्रथमान्तस्य षष्ठ्यन्तस्य चैकरूपत्वाद्भिन्नार्थकत्वाच्चाभिन्नजातीयसुब्विभक्तिश्लेषोऽयम् ॥

धातुर्जगन्निर्मातुरपि पूर्व इत्यनेनानादित्वमुक्तम् । परः प्रत्ययः कारणत्रयरूपं न किंचिदनाख्यातम् । श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धावदानत्वात् । द्वितीयस्याभावान्न केनचिदुपमानम् । अर्थान्तरे तु धातुः क्रियावचनशब्दरूपः पूर्व एव प्रकृतित्वात्ततः परः प्रत्ययः तिङादिः । अतः सर्वमाख्यातमेव पदं निष्पद्यते । तेन च कथं तिङन्तेनोपमानमस्ति भिन्नार्थत्वाच्चेति शब्दमेददृढीकरणार्थमुक्तम् । एवं तिङामपि संभेद उदाहरणीयः । यथा—

‘माद्यन्तु नाम कवयस्तथापि विदितश्रमाः ।
वेद विद्या पतिर्वाचामहं वाचोरिवान्तरम् ॥’

अत्र वेदेति प्रथमोत्तमयोः पुरुषयोरेकवचने श्लिष्येते ॥

वचनश्लेषो द्विधा—सोद्भेदः निरुद्धेदश्च । तयोः सोद्भेदो यथा—

‘प्राज्यप्रभावः प्रभवो धर्मस्यास्तरजस्तमाः ।
मुक्तात्मा नः शिवं नेमिरन्येऽपि ददतां जिनाः ॥ १५८ ॥’

अत्र नेमिरित्यन्येऽपीति एकवचनबहुवचनाभ्यां ददतामित्यत्र तिङन्ते प्राज्यप्रभावः प्रभव इत्यादिषु च सुबन्तेष्वेकवचनबहुवचनयोरुद्भेद इत्ययं सोद्भेदो नाम वचनश्लेषः ॥

निरुद्भेदो यथा—

‘तनुत्वरमणी यस्य मध्यस्य च भुजस्य च ।
अभवन्नितरां तस्या वलयः कान्तिवृद्धये ॥ १५९ ॥’

अत्राभवन्निति वलय इति पदयोस्तिङन्तसुबन्तयोरेकवचनबहुवचने अनुद्भिन्ने एव श्लिष्येते इत्ययं निरुद्भेदो नाम वचनश्लेषः ॥