230

अत्र स्थानतः समानश्रुतीनां मूर्धन्यतालव्यदन्त्यौष्ठ्यकण्ठ्यवर्णानां प्रथमतृतीयपादयोर्निरन्तरा द्वितीयचतुर्थयोश्च सान्तरा पट इव स्रग्दाम्नीव वा वर्णप्रदानान्मसृणैवावृत्तिः । सोऽयं श्रुत्यनुप्रासो मसृण इत्युच्यते ॥

एकपदप्रतिभासमात्रानुमेयो मसृणः । रूपसाजात्येऽपि मसृणतान्यग्भूतो वर्णमसृणः । उद्भटरूपसाजात्यानुविद्धो वर्णोत्कटः । अनुद्भटसाजात्यानुरोधेन किंचिदभिभूतमसृणभावो वर्णानुत्कटः । एष राजेत्यादावुदाहरणे षकाररेफौ मूर्धन्यौ, जकारयकारौ तालव्यौ, दकारलकारौ दन्त्याविति प्रथमपादे । तकारदकारौ दन्त्यौ, पकारभकारावौष्ठ्यौ, तकारधकारौ दन्त्याविति तृतीयपादे च । निरन्तरं द्वितीयपादे रेफणकारौ मूर्धन्यौ । चतुर्थपादे लकारसकारौ दन्त्यावित्यादि । विना क्रमेण सान्तरमावर्तनं नवरूपसाजात्यं क्वचिदुल्लिखतीति मसृण एवायम् ॥

वर्णमसृणो यथा—

‘स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः १६७’

अत्र दन्त्यौ मूर्धन्यावोष्ठ्यौ डलयोरैक्येन दन्त्यपञ्चकं मूर्धन्य इत्यादिना क्रमेण यद्यपि पूर्ववत्स्थानतः समानश्रुतितया मसृणैवावृत्तिः, तथापि चित्रपट इव माल्यग्रथन इव वा योऽयं क्षणं पक्ष्मसु ताडिताधराः, पयोधरः, वलीः, स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः, इति नानावर्णात्मकः सूत्रान्तरस्येव पुष्पान्तरस्येव वा स्थानभेदेन मसृण एव निवेशस्तेनैष श्रुत्यनुप्रासो वर्णमसृण इत्युच्यते ॥

अत्र चित्रतन्तुमयः पटः । एकजातीयकुसुमग्रथनात्प्राक् स्थिता इत्यादि । अत्र थकारतकारौ दन्त्यौ, षकारणकारौ मूर्धन्यौ, पकारमकारावोष्ठ्यौ । ताडितेत्यत्र डकारे लकारकल्पनया सनलतधाः पञ्च दन्त्याश्च रेफो मूर्धन्य इति प्रथमपादे । द्वितीयपादे च धकारसकारौ नकारतकारौ दन्त्यावित्यादिना क्रमेण सान्तरा निरन्तरा च श्रुतित एव वर्णावृत्तिः पूर्ववदुपलभ्यते । किंतु तकारादीनां रूपतोऽपि स्थाने स्थाने पूर्वमसृणतान्यग्भूतैवावृत्तिस्तेनायं वर्णमसृणः । श्रुतिसाजात्यं च न क्वचिद्विघटते । अत्रैव निदर्शनद्वयम् ॥