236
औण्ड्री पौण्ड्रीति विद्वद्भिः सा द्वादशविधेष्यते ।
अथ लक्षणमेतासां सोदाहरणमुच्यते ॥ ८० ॥

वर्णानुप्रासाद्भेदो वक्ष्यते—कर्णाटादिप्रभवकविहेवाकगोचराः कार्णाटीप्रभृतयो न तु वृत्तीनां देशैः कश्चिदुपकारः । बणवासनामा दक्षिणापथे रत्नाभगवतीचिह्नितो देशः । [131भ्रम धातोरिति । विधिमिति इति परायणम् ॥]

तासु वर्णानुप्रासवती कार्णाटी यथा—

‘कान्ते कुटिलमालोक्य कर्णकण्डूयनेन किम् ।
कामं कथय कल्याणि किंकरः करवाणि किम् ॥ १७८ ॥’

चवर्गानुप्रासवती कौन्तली यथा—

‘ज्वलज्जटिलदीप्तार्चिरञ्जनोच्चयचारवः ।
चम्पकेषु चकोराक्षि चञ्चरीकाश्चकासति ॥ १७९ ॥’

अवहित्थप्रस्तावे कर्णकण्डूयितमोट्टायिताख्यः श्रृङ्गारभावजो विकारः ॥

टवर्गानुप्रासवती कौङ्की यथा—

‘कुम्भकूटाट्टकुट्टाककुटिलोत्कटपाणिरुट् ।
हरिः करटिपेटेन न द्रष्टुमपि चेष्ट्यते ॥ १८० ॥’

कुम्भकूटं कुम्भाग्रं तदेव अट्टोऽट्टालकः । ‘रुष हिंसायाम्’ । यथोक्तेन पाणिना रुषतीति क्किप् । पेटः समूहः ॥

तवर्गानुप्रासवती कौङ्कणी यथा—

‘मधुर्मधूनि गान्धर्वमन्दिरं मदिरेक्षणा ।
इन्दुरैन्दीवरं दाम काममानन्दयन्ति नः ॥ १८१ ॥’

मधुर्वसन्तः । गान्धर्वं गीतम् । अत्र धकारदकारानुप्रासैरासमाप्ति निर्वहणम् ॥

पवर्गानुप्रासवती बाणवासिका यथा—

‘प्रिया प्रगल्भा ताम्बूलं परिस्रुत्फुल्लमुत्पलम् ।
पृषत्काः पञ्चबाणस्य पञ्चमः पञ्चमध्वनिः ॥ १८२ ॥’
  1. कुण्डलान्तरगतोऽयं भागोऽनन्वितः प्रतीयते ।