अन्ये पुनरन्यथा वृत्तिं व्याचक्षते—
अन्ये पुनरिति । वर्णानां वर्तनं वर्तनाधिष्ठानं च वर्तिपदेनाभिमतम् । आद्ये संघटनविघटनाभ्यां द्विधा । समस्तव्यस्तभेदेन संघटनविघटने द्विधा । कादयो मावसानाः स्पर्शाः । आदिग्रहणादन्तःस्थोष्मणोः संघटनबहुलः संदर्भः प्रस्फुटः । विघटनबहुलः कोमलः । उभयबहुल उन्मिश्रः ॥
द्वितीयं वृत्तिशब्दार्थमाह—काव्यव्यापी चेति । अत्रापि दोषप्रसङ्गापाकरणार्थमाह—सौकुमार्यमिति । अत एव [सौकुमार्यप्रौढिमध्यमत्वानि] गुणाः । शैथिल्यपरुषत्वे तु दोषावित्यर्थः ॥
योगासंयोगयोः प्रतियोगिव्यवस्थाविरहात्कथं द्वादशप्रकारता व्यवस्थितिरित्याशयवानाह—कारणं पुनरिति ॥
तासु गम्भीरा यथा—
सैषा प्रायस्तवर्गपवर्गयोस्तृतीयचतुर्थानां पकारफकारयोश्च स्वसंयोगबिन्दुयोगाम्यां जायते ॥