243
श्रुत्यनुप्रासवर्णानुप्रासयोरपि दुष्कराः ।
क्वचिद्भेदाः पृथक्कर्तुमस्यास्तेनेह नेष्यते ॥ ८८ ॥

श्रुत्यनुप्रासवर्णानुप्रासयोरिति । विषयसप्तमी । वर्णावृत्तेर्वृत्त्यनुप्राससाधारणत्वात् ॥

यथाम्रातकपुष्पादिस्रगादेर्वर्ण उच्यते ।
वर्णावृत्तिस्तथा वाचां वर्णानुप्रास उच्यते ॥ ८९ ॥

ततो वर्णानुप्रासं विशेषयन्नाह—यथाम्रातकेति । स्रगादेर्वर्णस्थानीया वर्णावृत्तिर्वर्णानुप्रासः । तत्रोपमानभूतवर्णविवरणं समानजातीयकुसुमादिविरचितमालापटप्रभृतिषु यदन्तरान्तरा विजातीयाम्रातककुसुमादिसंनिवेशनं तद्वर्ण इत्युच्यते । तद्वत्या वाचा वर्णावृत्तिः । सैव वर्णानुप्रास इति सूत्रार्थः । स द्विधा—संयुक्तासंयुक्तवर्णनिरूप्यत्वात् । यथायथमेतदुभयप्रपञ्चनम् ॥

स तु स्तबकवान्स्थानी गर्भो विवृतसंवृतः ।
गृहीतमुक्तः क्रमवान्विपर्यस्तोऽथ संपुटः ॥ ९० ॥

स्तबकवदादयो द्वादश प्रकारास्तेषु क्वचित्क्वचित्संयोगावृत्तिः स्तबकवान् । अनुप्रासविन्यासादिति संयोगानुप्रासविन्यासतः ॥

मिथुनं वेणिका चित्रो विचित्रश्चेति वर्ण्यते ।
वर्णावृत्तिप्रयोगेभ्यस्तेभ्यस्तेभ्यो मनीषिभिः ॥ ९१ ॥

तेषु स्थाने स्थानेऽनुप्रासविन्यासतः स्तबकवान्यथा—

‘यस्यावासीकृतहिमगिरेर्गुञ्जतां कुञ्जराणा- माविश्चक्रे वनगजमदाघ्राणघोरायितानि ।
दर्पोत्फुल्लस्फुरणविकटाकाण्डकण्डूलगण्ड- स्वेच्छाकाषव्रणितसरलानोकहस्कन्धगन्धः ॥ २०२ ॥’

अत्र गुञ्जतां कुञ्जराणामित्यादेर्वर्णस्तबकस्य स्थाने स्थाने विन्यासादयं वर्णानुप्रासस्तबकवानित्युच्यते ॥

गुञ्जतां कुञ्जराणामकाण्डकण्डूलगण्डस्कन्धगन्ध इत्यत्रावृत्तिचतुष्केण स्तबकनिर्वाहः ॥