251

खिन्नो यथा—

‘कुलजातिसमाकुलीकृतानां सुखदसुखाशयमूढचेतनानाम् ।
अभवविभवलाभलोलुभानां भव भवबन्धविभेदनाय भूयः ॥ २२१ ॥’

अत्र रीतेरनिर्वाहात्खिन्नता । सोऽयं पदानुप्रासः खिन्न इत्युच्यते ॥

कुलेति । अत्र प्रथमपादे कुलेति अविवक्षितस्वरादिवर्णयुग्ममक्षरचतुष्टयव्यवधानेन कुलीत्यावृत्तम् । द्वितीयतृतीयपादयोस्तु सुखदसुखेति अभवविभवेति चैकवर्णव्यवधानेनावृत्तिः । चतुर्थपादे तु भवभवेति रीतिभङ्गो न च दोषः । प्रतीत्यव्यवधानात् ॥

स्तबकवान्यथा—

‘भासयत्यपि भाषादौ कविवर्गे जगत्त्रयीम् ।
के न यान्ति निबन्धारः कालिदासस्य दासताम् ॥ २२२ ॥’

सोऽयं वर्णानुप्रासवत्पदानुप्रासोऽपि स्थाने स्थाने विनिवेशात्स्तबकवानित्युच्यते ॥

वैचित्रीविशेषेणालंकारभावो भासयतीत्यादावाद्यन्तयोर्दूरान्तरितैवावृत्तिः । स्थाननियमस्तु न विवक्षितः । तदिदमुक्तम्—स्थाने स्थान इति ॥

स्थानी यथा—

‘परं जोण्हा उण्हा गरलसरिसो चन्दणरसो खदक्खारो हारो मलअपवणा देहतवणा ।
मुणाली वाणाली जलदि अ जलद्दा तणुलदा वरिट्ठा जं दिट्ठा कमलणअणा सा सुवअणा ॥ २२३ ॥’
[परं ज्योत्स्ना उष्णां गरलसदृशश्चन्दरसः क्षतक्षारो हारो मलयपवना देहतपनाः ।
मृणाली बाणाली ज्वलति च जलार्द्रा तनुलता वरिष्ठा यद्दृष्टा कमलनयना सा सुवदना ॥]

सोऽयं पदानुप्रासः स्थाननियमात्स्थानीत्युच्यते ॥