अमृतमिति । अत्र द्वितीयान्तानाममृतादिपदानां द्विरुक्तिदोषेण तात्पर्यापर्यवसानादमृतादिगुणपरत्वे कल्पनीयेऽपि निकृष्टगुणपराणां सामानाधिकरण्यानुपपत्तेस्तत्तदसाधारणगुणोपबृंहितामृतादिनिष्ठानामाद्यपदोपात्तसामान्यापेक्षो विशेष्यभावश्च विशेषणत्वं च निर्वहति । न च पर्यायनिवेशेऽर्थान्तरसंक्रमितवाच्यता संभवतीति पूर्वाचार्याः । सेयं गौणार्थपरवशा नाम द्विरुक्तिः ॥