258

विस्मयसंभ्रमेण यथा—

‘अहो रूपमहो रूपमहो मुखमहो मुखम् ।
अहो मध्यमहो मध्यमस्याः सारङ्गचक्षुषः ॥ २३८ ॥’

एतेषु समस्तेष्वपि संभ्रमेषु यावद्बोधमिति द्विरुक्तिः ॥

एवं त्रिरुक्तिरपि द्रष्टव्या यथा—

‘जय जय जय श्रीमन्भोज प्रभाति विभावरी वद वद वद श्रव्यं विद्वन्निदं ह्यवधीयते ।
शृणु शृणु शृणु त्वद्वत्सूर्योऽनुरज्यति मण्डलं नहि नहि नहि क्ष्मामार्तण्डः क्षणेन विरज्यते ॥ २३९ ॥’

संभ्रमेषु यावद्बोधमिति यावच्छब्दार्थमाविष्कुर्वाणः पूर्वोक्तमभिप्रेत्याह—एवं त्रिरुक्तिरपीति । उपलक्षणं चेदम् । चतुरादिद्विरुक्तिरदण्डवारितैव ॥

क्रियासमभिहारश्च क्रियाभ्यासश्च यः पुरा ।
युक्तावुदाहृतः सोऽपि नामानुप्रास इष्यते ॥ १०० ॥

समभिहारो भृशत्वम् ॥

जायते न च दोषाय काव्येऽलंकारसंकरः ।
विभूषयति हारोऽपि स्तनौ ग्रीवं मृगीदृशाम् ॥ १०१ ॥

ननु वाक्यार्थप्रयुक्त्यैव काव्यस्य सनाथीकरणात्किमनुप्रासेनेत्यत आह—जायते न चेति । उदाहरणेनालंकार्यसंकरवदलंकारसंकरोऽपि लोकप्रसिद्ध एव शोभाहेतुरित्यभिमतमिति ॥

अर्थाभेदे पदावृत्तिः प्रवृत्त्या भिन्नयेह या ।
स सूरिभिरनुप्रासो लाटीय इति गीयते ॥ १०२ ॥

क्रमप्राप्तं लाटानुप्रासं लक्षयति—अर्थाभेदे इति । लाटजनवल्लभोऽनुप्रासो लाटानुप्रासः । अर्थभेदे कथं न पुनरुक्तिदोष इत्यत उक्तम्—प्रवृत्त्या भिन्नयेति । तात्पर्यभेदेनेत्यर्थः । अत एव यमकाद्भेदः ॥