263
‘दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥ २५१ ॥’

अत्रानेकधा दशशब्द आवर्तते ॥

शतधृतिर्ब्रह्मा तस्य भुवनभूतमम्भोरुद पद्मं तस्य, क्षोणी पृथ्वी तद्रूपा या नौस्तरिस्तस्याः कूपदण्डः गुणवृक्षः । दशस्विति । एको दशशब्दो व्यस्तः, अन्ये त्रयः समस्ताः ॥

अव्यवहितेऽपि द्वैगुण्यादेर्न विरोधः । यथा—

‘वस्त्रायन्ते नदीनां सितकुसुमधराः शक्रसंकाशकाशाः काशाभा भान्ति तासां नवपुलिनचराः श्रीनदीहंसहंसाः ।
हंसाभाम्भोदमुक्तक्षरदमृतरुचिर्मेदिनीचन्द्रचन्द्रश्चन्द्राङ्कः शारदस्ते जयकृदुपनतो विद्विषां कालकालः ॥ २५२ ॥’

ननु व्यवहित एव किं गुणनादिभेदो नेत्याह—अव्यवहितेऽपीति । वस्त्रायन्त इत्यादौ काशपदपरिहारेणोदाहरणम् । तत्र हि प्रथमः काशशब्दो भिन्नार्थ एव ॥

व्यवहिताव्यवहितभेदेऽपि दृश्यते । यथा—

‘धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते धनैरेव पापान्नरा निस्तरन्ति ।
धनेभ्यो हि कश्चित्सुहृन्नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम् २५३’

यत्र व्यवहिताव्यवहितयोरेकवाक्यानुप्रवेशोऽस्ति तत्रापि गुणनाभेद उदाहरणीयः । दृश्यत इत्यनेन यद्वव्द्यवहिते भूयसी गुणना महाकविप्रबन्धेषु प्रतीयते न तद्वदव्यवहितेऽपीति पूर्वं व्यवहितमात्रे गुणनादिकमुपन्यस्तमिति तात्पर्यम् ।धनैरिति । अत्र धनपदव्यवधानेन बह्वीं गुणनामवलम्बमानमेव चतुर्थपादे त्वव्यवहिता त्वनुप्रासेऽपि प्रविष्टमिति भवति व्यवहिताव्यवहितभेदता । सोऽयं पदाभ्यासो दर्शितः ॥

योऽपि चार्धाभ्यासः सोऽपि व्यवहिताव्यवहितभेद एव । यथा—

‘यैस्त्वं साक्षात्कृतो नाथ तेषां कामेषु को ग्रहः ।
यैस्त्वं साक्षात्कृतो नाथ तेषां कामेषु को ग्रहः ॥ २५४ ॥’