266

पञ्चप्रभृतिनियमेन तथाशक्तिञ्युत्पत्त्योरुत्कर्ष इति चतुरादि गृह्णाति—तत्रेति । अवश्यं योद्धा जाजी । जजेर्युद्धार्थादावश्यके णिनिः । जजा युद्धशौण्डास्तेषामोजसा जाता या आजिः सङ्ग्रामस्तं जयतिति क्विप् । तं वेणुदारिणं ततोऽनन्तरं अतिततान् चतुरङ्गबलेन प्राप्तविस्तारान् आतिनः सततगमनशीलान् तुदतीति क्विप् । भानां दीप्ततारानुरूपाणां शुक्रबृहस्पत्यादीनामाभेवाभा कान्तिर्यस्येत्युपमानपूर्वपदबहुव्रीहौ उत्तरपदलोपे च भामः । अभियो भयशून्यानिभानभिभवतीति क्विप् । अभीभाभिभूस्तादृशी या भा तेजस्तस्या भूराश्रयः । आर जगाम । अरिः शत्रुः । बलभद्र इत्यर्थः । अरीणां रीः संचरणम् । ‘रीङ् गतौ इति धात्वनुसारात् । तस्या ईरो धूननं राति ददाति अरीररः ॥

त्रिव्यञ्जनं यथा—

‘देवानां नन्दनो देवो नोदनो वेदनिन्दिनाम् ।
दिवं दुदाव नादेन दाने दानवनन्दिनः ॥ २६० ॥’

देवः सृष्टिस्थितिसंहारक्रीडारतः, दानवनन्दी हिरण्यकशिपुस्तस्य दानेऽवखण्डने यो नादो वक्षःकपाटपाटनकटकटाशब्दस्तेन दिवं स्वर्गं दुदाव किमेतदित्याकस्मिकसंभ्रमेणेत्युपतापयामास । जगत्कण्टकनिराकरणाद्देवानां नन्दन आनन्दकृत् । वेदनिन्दिनां च नोदनः प्रतिक्षेपकः । सामान्याभिप्रायेणैकवचनम् ॥

द्विव्यञ्जनं यथा—

‘भूरिभिर्भारिभिर्भीराभूभारैरभिरेभिरे ।
भेरीरेभिभिरभ्राभरभीरुभिरिभैरिभाः ॥ २६१ ॥’

भूरिभिर्बहुभिर्भारिभिः प्रकृतिसारभारवाहिभिरतिप्रमाणकायतया भुवो भारभूतैरन्तःकांस्यभाजनो निःस्वानो भेरी तद्वदेभिभिः । ‘रेभृ शब्दे’ इति धात्वनुसारात् । अभ्राभैः प्रथमोन्नतमेघकान्तिभिरिभैर्हस्तिभिर्भिय रान्ति प्रयच्छन्तीति भीरा इभाः प्रतिद्विपा अभिरेभिरे अभियुक्ताः ॥

एकव्यञ्जनं यथा—

‘न नोननुन्नो नुन्नेनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ २६२ ॥’