पञ्चप्रभृतिनियमेन तथाशक्तिञ्युत्पत्त्योरुत्कर्ष इति चतुरादि गृह्णाति—तत्रेति । अवश्यं योद्धा जाजी । जजेर्युद्धार्थादावश्यके णिनिः । जजा युद्धशौण्डास्तेषामोजसा जाता या आजिः सङ्ग्रामस्तं जयतिति क्विप् । तं वेणुदारिणं ततोऽनन्तरं अतिततान् चतुरङ्गबलेन प्राप्तविस्तारान् आतिनः सततगमनशीलान् तुदतीति क्विप् । भानां दीप्ततारानुरूपाणां शुक्रबृहस्पत्यादीनामाभेवाभा कान्तिर्यस्येत्युपमानपूर्वपदबहुव्रीहौ उत्तरपदलोपे च भामः । अभियो भयशून्यानिभानभिभवतीति क्विप् । अभीभाभिभूस्तादृशी या भा तेजस्तस्या भूराश्रयः । आर जगाम । अरिः शत्रुः । बलभद्र इत्यर्थः । अरीणां रीः संचरणम् । ‘रीङ् गतौ इति धात्वनुसारात् । तस्या ईरो धूननं राति ददाति अरीररः ॥