षोडशपत्त्रमाह—नमस्त इत्यादि । महिमनि प्रेमा यस्य तत् । नमस्य अमतिमतो दाम्यतीति अमतिमद्दम । क्षामः कलामात्रेण चूडासंगतः सोमो यस्य । नमन् भग्नः कामो यस्मात् । धाम्ना तेजसा भीम भयानक । समा सकलव्युत्थानहेतुसाधारणी क्षमा यस्य । यस्यैतानि संबोधनविशेषणानि ते तुभ्यं नमस्कुरुते 275 कश्चिदिति ॥ न्यासमाह—गोमूत्रिकेति । वर्णा मकारव्यतिरिक्ताः समाः मकारसहिताः । समाः समा इति वीप्सा प्रतिवर्णं मकारसाहित्यबोधनार्था ॥