288
कन्दोदोल्लासलासी जयति शिवशिखामण्डनीभूतखण्डो दत्तज्योत्स्नाजलौघो विहितनिजरतिर्विभ्रमाणां बलेन ॥]

विहरणे संचरणे सफलः । उद्भूतः शुभाशुभसूचकत्वात् । मेलिकारी संगमकारी, चूडामणित्वात् । ऐक्यकारी वा, तन्मूर्तित्वात् । कन्दोदं कुमुदमिहाभिमतं तद्विकासेन लसनशीलः । ज्योत्स्नाजलौघान्ददत् । विभ्रमाणां बलेन विहिता निजे आत्मनि रतिर्येन स तथा ॥

समसंस्कृतेन पादगोमूत्रिका यथा—

‘बाला विलासावलिहारिहासा लोलामला भावसहा सहावा ।
देहं हरन्ती सहसा सुरामा गेहं चरन्ती सहसाभिरामा ॥ ३३५ ॥’

विलासावलिषु हारी हासो विकासो यस्याः । लोला चला । अमला निर्मला । भावाननेकविधान्या सहते सा भावसहा । हावः क्रीडाविशेषः ॥

अर्धगोमूत्रिकाप्रस्तारो यथा—

‘नमो दिवसपूराय सुतामरसभासिने ।
नतभव्यारिदाराय सुसारलयभाविने ॥ ३३६ ॥’

दिवसान्पूरयतीति दिवसपूरः तस्मै । सुष्ठु तामरसेषु भासनशीलाय । नता भव्या यस्मै । अरीन्दारयतीत्यरिदारः । ततः कर्मधारयः । नतानां भव्यानामरिदार इति वा, नता भव्या अरिदारा यस्मिन्निति वा । सुष्ठु सारो लयस्तत्र लयनं तं भावयति यस्तस्मै ॥

अत्र गोमूत्रिकाश्लोकोऽयमुत्तिष्ठति ।

‘नतदिव्यासदाराय सुसामलसभासिने ।
नमो भवारिपूराय सुताररयभाविने ॥ ३३७ ॥’

नता दिव्या देवा यस्मै । असदविद्यमानमरि चक्रं यस्य । ततः कर्मधारयः । शोभनानां साम्नां लसनेन भासनशीलाय । भानि नक्षत्राण्यावरितुं शीलं यस्येति भवारि आकाशं पूरयति व्याप्नोति एवंभूताय । सुष्ठु तार उच्छ्रितो यो रयो वेगो गमनं तेन भाविने ॥