300

अत्र विहङ्गिका काहारेण वर्जिता न यातीति वक्तव्ये हारेण वर्जितेत्युक्तम् । अतः का इत्यक्षरस्य च्युतत्वाच्च्युताक्षरेयम् ॥

दत्ताक्षरा यथा—

‘कान्तयानुगतः कोऽयं पीनस्कन्धो मदोद्धतः ।
मृगाणां पृष्ठतो याति शम्बरो रूढयौवनः ॥ ३५९ ॥’

अत्र शबर इति शम्बर इत्यनुस्वाराक्षरस्य दत्तत्वाद्दत्ताक्षरेयम् ॥

च्युतदत्ताक्षरा यथा—

‘विदग्धः सरसो रागी नितम्बोपरि संस्थितः ।
तन्वङ्ग्यालिङ्गितः कण्ठे कलं कूजति को विटः ॥ ३६० ॥’

अत्र विट इत्यस्मिन्पदे विकारे च्युते घकारे दत्ते घटः कूजतीति द्वितीयोऽर्थो भवतीति सेयं च्युतदत्ताक्षरा ॥

अक्षरमुष्टिका यथा—

‘अतिः अतिः अन्मअलं प्रीद्य रद्य जद्य फद्य ।
मेला मेला मेलं मेलं फस फस फस फस ॥ ३६१ ॥’

सेयमक्षराणां मुष्टिरित्यक्षरमुष्टिका । अत्र पादशश्चतुःपङ्क्तिलिखितचतुर्भिर्मुरजबन्धैः श्लोक उत्तिष्ठति । तद्यथा—

‘अद्य मे सफला प्रीतिरद्य मे सफला रतिः ।
अद्य मे सफलं जन्म अद्य मे सफलं फलम् ॥ ३६२ ॥’

बिन्दुमती यथा—

‘तवाववादः प्रत्यब्धि पताका प्रतिसङ्गरम् ।
फलं प्रत्यद्भुतोपायं यशांसि नतु न क्वचित् ॥ ३६३ ॥’